________________
धर्मसंग्रहे अधिकारः
SO930
॥१८३॥
विचिन्त्य सति ज्ञाने निजमायुःशेषं खयमेव पर्यालोचयति, तदभावे पुनरन्यमतिशायिनं पृच्छति, तत्र स्वल्पे। जिनकस्वायुषि प्रागुक्तमन्यतरं मरणमङ्गीकरोति, अथ दीर्घायुः परं जवाबलं क्षीणं, तदा वृद्धवासं स्वीकुरुते, पुष्टायां तु। ल्पाधि शक्तौ जिनकल्पाद्यभ्युद्यतविहारं भजते, तत्रादौ गण्यादीनां खयोग्यविषयाः तुलना चेत्थम्-गणिनां परिमितकालो गणनिक्षेपो भवति, यो वा यत्रोपाध्यायादिस्थाने स्थितःस इत्वरं तत्पदमात्मसमस्यान्यस्य साधो निक्षिपति परीक्षार्थ, पश्यामस्तावदेते अभिनवाचार्यादयः कीदृशा भवन्ति?, अस्य स्थानस्योचिता न वेति, यतो योग्यानामपि प्रायेण प्रस्तुतस्य निर्वहणं दुष्करं भवति, तदुक्तम्-"गणणिक्खेवेत्तरिओ, गणिस्स जो वा ठिओ जहिं ठाणे । सो तं अप्पसमस्स उ णिक्खिवई इत्तरं चेव ॥१॥ पिच्छामु ताव एए, केरिसया हुंतिमस्स ठाणस्स । जोग्गाणवि पाएणं, निव्वहणं दुक्करं होई ॥२॥” इति । ततः पञ्चभिस्तुलनाभिरात्मानं तोलयति-"तवेण सत्तेण सुत्तेण, एगत्तेण बलेण य । तुलणा पंचहा वुत्ता, जिणकप्पं पडिवजओ॥१॥” इति । तत्र तपसाऽऽत्मानं तथा भावयति यथा देवाद्युपसर्गादिनाऽनेषणीयादिकरणतः षण्मासान् यावदाहारालाभेऽपि क्षुधया न बाध्यते, सत्त्वभावनया च भयं निद्रां च पराजयते, सा च पञ्चधा, तत्राद्या रात्री सुतेषु सर्वेषु साधुषु वसतावेव कायोत्सर्ग कुर्वतो भवति, द्वितीयास्तूपाश्रयबाह्यादिप्रदेशेषु, आह च-"पढमा उवस्सयंमी, बीआ बाहिं तिआ चउकमी । सुन्नघरंमि चउत्थी, अह पंचमिआ मसाणंमि ॥१॥" सूत्रभावनया तु निजनामवत्तथा परिचितं सूत्रं करोति यथा दिवा रात्रौ वा शरीरच्छायाद्यभावेऽप्युच्छासप्राणस्तोकलवमुहूर्त्तादिकं कालं सूत्रपरावर्तानुसारेणैव
Jain Education intedindia
For Private & Personel Use Only
www.jainelibrary.org