________________
साम्प्रतं निरपेक्षयतिधर्मप्रस्तावनाय तद्योग्यतामाह
प्रमादपरिहाराय, महासामर्थ्यसंभवे । कृतार्थानां निरपेक्षयतिधर्मोऽतिसुन्दरः ॥ १५४ ॥ 'महासामर्थ्य' आद्यसंहननत्रययुक्ततया वज्रकुड्यसमानधृतितया च कायमनसोः शक्तिः तस्य 'संभवे | विद्यमानत्वे 'प्रमादपरिहाराय' प्रागुक्ताष्टविधप्रमादत्यागाय 'कृतार्थानां कृतकृत्यानां आचार्योपाध्यायप्रवर्तक-11 स्थविरगणावच्छेद्कलक्षणपदपश्चकयोग्यतया शिष्याणां निष्पादनेन निष्ठितार्थानामित्यर्थः 'निरपेक्षयतिधर्मों गच्छनिर्गतयतिधर्मः 'अतिसुन्दरः' अतिशयेन श्रेयान् , प्रमादजयाथं कृतकृत्यानामाचार्यादीनां अयमतिश्रेष्ठ 8
इत्यर्थः । अत्रेदमवधेयम्-निरपेक्षा यतयो जिनकल्पिकाः शुद्धपारिहारिका यथालन्दिकाश्च, तत्र जिनानामिव 18 कल्पो जिनकल्पः-उग्रविहारविशेषस्तेन चरन्तीति जिनकल्पिकाः १, परिहारः-तपोविशेषस्तेन चरन्तीति पारि-18
हारिकाः शुद्धाश्च ते पारिहारिकाश्चेति समासः २, यथालन्देन-प्रकृतकल्पानुरूपकालविशेषेण चरन्तीति यथा-2 लन्दिका ३, प्रतिमाकल्पोऽपि निरपेक्ष एव, परं प्रागुक्तत्वादिह नोक्तः, इह तु त्रय एव विवक्षितास्तद्धर्मेऽधिकारिणश्च प्रायो गण्यादयः पञ्च पुरुषाः, तदुक्तं पञ्चवस्तुके-"गणिउज्झाय पवित्ती, थेरगणावच्छया इमे पंच । पाय-12 महिगारिणो इह, तेसि इमा होइ तुलणा उ॥१॥” तत्प्रतिपित्सुना प्रथममेव पूर्वापररात्रे तावदिदं चिन्तनी-13 यं 'अनुपालितो दीर्घपर्यायः, वाचना चोचितेभ्यो दत्ता, निष्पादिताश्च शिष्याः, मम किं साम्प्रतं युक्त'मिति
Jain Education Inter
For Private & Personel Use Only
Y
w.jainelibrary.org