________________
चेयहरं गच्छति । ओमत्थगरयहरणणं गमणागमणाए आलोइंति, तओ इरियावहिया पडिकमिजइ, तओ चेइयाई ओमत्थयं वंदंति, अजियसंतित्थओ पढिजइ, तओ ओमत्थगकम परिहरित्ता इरियं पडिकमिय देवे वंदिय संतित्थयं भणिय आयरियसगासे आगंतुं अविहिपारिट्ठावणियाए काउस्सग्गो कीरइ, नवकारं चिंतित्ता मुहेण भणंति, महिद्धियाईणं असज्झाओ खमणंच कीरई, न सवत्थ, एस सिवे विही, असिवे खमणं असज्झाओ काउस्सग्गो य अविहिविर्गिचणत्थं न कीरइ । इति महापारिष्ठापनिकाविधिः ॥ १५२ ॥ अथोपसंहरन्नाह
सापेक्षयतिधर्मोऽयं, परार्थकरणादिना । तीर्थप्रवृत्तिहेतुत्वाद्वर्णितः शिवसौख्यदः॥१५३॥ | 'अयं' अनन्तरनिरूपितस्वरूपः 'सापेक्षयतिधर्मो' गच्छवासियतिधर्मो गुर्वन्तेवासादिसमाधिमरणपर्यवसानो 18'वर्णितो' व्याख्यातः, किंफल: ? इत्याह-'शिवसौख्यदः' शिवं-मोक्षस्तस्य सौख्यं-निरावाधलक्षणं ददातीति
तथा, मोक्षफलक इत्यर्थः। तत्र हेतुमाह-तीर्थे'ति तीर्थ-चतुर्विधः श्र(म)णसङ्घः प्रवचनं वा तस्य प्रवृत्ति:-अवि|च्छेदेन स्थितिस्तस्या हेतुत्वात्-कारणत्वात् , तीर्थप्रवर्तकतया सापेक्षयतिधर्मो मोक्षफलक इति भावः। तीर्थप्रवृत्तिहेतुत्वमपि केन हेतुनेत्याह-परार्थे ति परार्थ:-परोपकारः परेषामुपदेशदानेन सम्यक्त्वादिगुणप्रापणमित्यर्थः तस्य करणं-संपादनं आदिशब्दादितिकर्तव्यताग्रहस्तेन तीर्थ प्रवर्त्तत इति भावः ॥१५३॥
इति परमगुरुभट्टारकश्रीविजयानन्दमूरिशिष्यमुख्यपण्डितश्रीशान्तिविजयगणिचरणसेविमहोपाध्यायश्रीमानविजयगणिविरचितायां खोपज्ञधर्मसंग्रहवृत्तौ सापेक्षयतिधर्मव्यावर्णनो नाम तृतीयोऽधिकारः ।
Jain Education Intential
For Private & Personel Use Only
w.jainelibrary.org