________________
प्रभावनोद्धावनयो;, क्षेत्रोपध्येषणासु च । अविषादी गणावच्छेदकः सूत्रार्थविन्मतः ॥ १४५॥ "प्रभावना' जिनशासनस्योत्सर्पणाकरणं 'उद्धावना' उत्प्राबल्येन धावना गच्छोपग्रहार्थ दूरक्षेत्रादौ गमनमित्यर्थः, तयोः, तथा क्षेत्रं-ग्रामादि योग्यस्थानं उपधिः-कल्पादिस्तयोरेषणा मार्गणा गवेषणेति यावत् आसु 'अविषादी' खेदरहितः,तथा 'सूत्रार्थवित्' उचितसूत्रार्थज्ञाता, ईदृशो 'गणावच्छेदकः तत्संज्ञो 'मतः' प्रज्ञप्तो | जिनैरितिशेषः, न पुनर्गुणरहित इति भावः । उक्तगुणानुसारेणैव चैषां पञ्चानामसाधारणा अधिकारा यतिदिनचर्यायां प्रोक्ताः, तथाहि-गच्छे अत्थं १ सुत्तं २ तवपमुहं ३ तत्थ चेव य थिरत्तं ४। खित्तोवहिगहणाई ५, सूरिप्पमुहा पसाहति ॥१॥"त्ति॥ अत्र प्रसङ्गादाचनाचार्यपदमपीत्थमेव ज्ञेयं, स च गुादेशेनानुज्ञातः सूरिवत् सर्वकृत्यानि करोति, वन्दनके तु पर्यायेणैव ज्येष्ठः, गोचरचर्यायामप्यस्य न निषेधः, तथा पूर्वोक्तस्वरूपा प्रवर्तिनी आगमभाषयाभिषेकेत्युच्यते, तस्याः पदस्थापनविधिः सर्वोऽपि महत्तरावद्विज्ञेयः, केवलं मंत्रो वर्द्धमानविद्या, वन्दनकं पर्यायक्रमेण, महत्तरापदविधिश्च गन्धक्षेपादिकः सर्वोऽप्युपाध्यायपदवत् विज्ञेयः, इयमपि सर्वव्रति(नी)जनानां वन्दनााँ, अनुशास्तिः पुनरेवम्-"सत्वन्नुदेसियमिणं, पयं पहाणं पहाणफलजणयं। बंभीसुंदरिचंदणपभिई हिं निसेवियं सम्मं ॥१॥ तो तुमए समणीओ तुम्भं सरणागया भवभयाओ । सारणवारणचोयणमाईहिं रक्खियवाओ॥२॥" साध्वीनां पुनरियं शिक्षा-"कुलवहुदिटुंतेणं, कज्जे निभच्छि
Jain Education
For Private Personel Use Only
w.jainelibrary.org