________________
Jain Education Inter
अरहा से णं केवली से णं जिणे से णं तित्थुवभासगे से णं वंदे से णं पुज्जे से णं नम॑सणिज्जे से णं दट्ठवे से परमपवित्ते से णं परमकल्लाणे से णं परममंगल्ले से णं सिद्धी सेणं मुत्ती से णं सिवे सेणं मोक्खे से णं ताया से णं संमग्गे से णं गई से णं सग्गे से णं सिद्धे बुद्धे मुत्ते पारगए देवे देवदेवे, एअस्स गो० गणणिक्खेवं कुज्जा, | एअस्स णं गणणिक्खेवं कारवेज्जा, एअस्स णं गणणिक्खेवं समणुजाणिज्जा, अन्नहा णं गो० आणा भंगेत्ति” तथापि कालोचिता दृढमहाव्रतत्वशुद्धगीतार्थत्वसारकत्वादिरूपा ( गुणाः ) जघन्यतोऽपि द्रष्टव्याः, यत उक्तं सपूर्वपक्षं व्यवहारभाष्ये- "पुखं वण्णेऊणं, दीहपरियायसंघयणसद्धं । दसपुवीए धीरे, मज्जाररुअप्परूवणया ॥ १ ॥ व्याख्या- पूर्व आचार्यपदयोग्यस्य दीर्घः पर्यायो वर्णितः, संहननं चातिविशिष्टं श्रद्धा चाप्युत्तमा, आगमत आचा र्यपदयोग्या दशपूर्विका धीरा बुद्धिचतुष्टयेन राजमानाः, एवं वर्णयित्वा यदिदानीं प्ररूपयत त्रिवर्षपर्याय आचारप्रकल्पधरः उपाध्यायः स्थाप्यते पंचवर्षपर्यायो दशाकल्पव्यवहारधर इत्यादि, सैषा प्ररूपणा मार्जाररुतं, यथा | मार्जारः पूर्वं महता शब्देनाऽऽरटति, पश्चाच्छनैः शनैः स्वयमपि श्रोतुमशक्यं, एवं त्वमपि पूर्वमुच्चैः शब्दितवान् पश्चाच्छनैरिति । सूरिराह - सत्यमेतत्, केवलं पूर्वं अतिशयितवस्तुस्थितिमधिकृत्योक्तं, संप्रति तु कालानुरूपं | प्रज्ञाप्यत इत्यदोषः । तथा चात्र दृष्टान्ताः - 'पुक्खरणी आयारे, आणयणा तेणगा य गीअत्थे । आयरिअंमि उ एए, आहरणा हुंति णायवा ॥ १ ॥ सत्थपरिन्नाछक्काय अहिगमे पिंड उत्तरज्झाए । रुक्खे अ वसभगावो, | जोहा सोही अ पुक्खरणी ॥ २ ॥ पुक्खरणीओ पुत्रिं, जारिसया उ ण तारिसा इण्हि । तहविअ पुक्खरणीओ,
For Private & Personal Use Only
www.jainelibrary.org