________________
'संग्रह' उपदेशादिना शिष्यादेरुपष्टम्भदानं उपग्रहश्च वस्त्रादिना तयोः 'पर' तत्परः, एतेन द्रव्यभावाभ्यामुपष्टम्भ उक्तः। 'सर्वोभयलोकहितः' अत्र चतुर्भङ्गी-यथा यः साधूनां वस्त्रपात्रभक्तादिकं पूरयति न पुनः |संयमे सीदतः सारयति स इहलोके हितो न परलोके १, यः पुनः संयमयोगेषु प्रमाद्यतां सारणां करोति न वस्त्रान्नादिकं प्रयच्छति स परलोके हितो नेह लोके २, यो वस्त्रपात्रभक्तपानादि सर्वमपि साधूनां पूरयति संयमयोगेषु च सीदतः सारयति स इहलोके परलोके च हितो ३, यस्तु न वस्त्रपात्रादिकं पूरयति न च संयमयोगे सीदतः सारयति स नेहलोके हितो नापि परलोके ४, अत्रास्तां चतुर्थभगवर्ती, आद्यभंगवलंपि त्याज्यः, यदुक्तं व्यवहारभाष्य-"जीहाएवि लिहंतो, ण भद्दओ जस्स सारणा णस्थि । दंडेणवि ताडतो, स भद्दओ सारणा जत्थ ॥१॥” इति, तथा 'श्रुते' प्रवचने 'रागो' भक्तिर्यस्य स श्रुतरागी तथा 'कृता' अभ्यस्ता 'क्रिया' प्रतिलेखनादिका येन स कृतक्रियः ‘एवंविधः' एवंप्रकारो 'गणवामी' गणनायको 'जिनसत्तमैः' जिनेन्द्रैिः 'भणितः' उक्तः॥१३६ ॥ इत्युक्ता गुणिमुखेन गणधरगुणाः, अथ प्रसंगतःप्रवर्तिनीगुणानाहIs गीतार्था कुलजाऽभ्यस्तसस्क्रिया पारिणामिकी । गम्भीरोभयतोवृद्धा, स्मृताऽऽर्याऽपि प्रवर्तिनी ॥१३७॥
'गीतार्थी श्रुतविभागमधिकृत्य तथा 'कुलजा' विशिष्टकुलजाता तथा अभ्यस्ता सत्क्रिया यया सा तथा, तथा 'पारिणामिकी' उत्सर्गापवादविषयज्ञा तथा 'गम्भीरा' अलब्धमध्या तथा 'उभयतो' दीक्षावयोभ्यां 'वृद्धा'
Ope000000000000000000000/et
मितिलेखनादिका येन स कृतमाश्रुते' भवचने रागो' भक्तिसारणा णत्थि । दंडेणवि ताला
Jain Education inst
all
For Private & Personel Use Only
ww.jainelibrary.org