SearchBrowseAboutContactDonate
Page Preview
Page 217
Loading...
Download File
Download File
Page Text
________________ सभ्यस्तीर्थकरगणधरादिभ्यो वा यैरिदं वक्ष्यमाणं वाचितं-अस्मभ्यं दत्तं, सूत्रार्थतया विरचितं वा । षड्विधमवश्य करणादावश्यकं षडध्ययनात्मकं, भगवत् सातिशयाभिधेयसमृद्ध्यादिगुणयुक्तं, तद्यथा-सामायिकं चतुर्विशतिस्तवो वन्दनं प्रतिक्रमणं कायोत्सर्गः प्रत्याख्यानं, सर्वस्मिन्नप्येतस्मिन् पड्विधे आवश्यके भगवति ससूत्रे सार्थे सग्रन्थे सनियुक्तिके ससंग्रहणीके, वस्तुनः सूचनामात्रकृतबीजवरूपं सूत्रं, वृत्तिटीकाभ्यां व्याख्यातोऽर्थः, अखण्डितसूत्रार्थोभयपाठो ग्रन्थः, विविधानुक्रमणिकापाठो विस्तरसहितो नियुक्तिः, बह्वर्थसंग्राहिका संग्रहणी, एभिः पदैः सह बहुव्रीहिसमासः तस्मिन् , ये गुणा विरतिजिनगुणोत्कीर्तनादयो धर्मा [वाशब्द उत्तरपदापेक्षया समुच्चये] भावाः क्षायोपशमिकादयो जीवाजीवादयो वा, अर्हद्भिर्भगवद्भिः प्रज्ञप्ताः-सामान्येन कथिताः, प्ररूपिता-विस्तरेण निर्दिष्टाः,वाशब्दौ पूर्ववत्, तान् भावान् श्रद्दध्महे-सामान्येनैवमेतदिति, प्रतिपद्यामहे-प्रीति करणद्वारेण, रोचयामः-तेषु वाल्लभ्यं वहाम इत्यर्थः, स्पृशामः-क्रियामात्रेण कुर्मः, पालयामः-रक्षयामः, अनु-18 18/पालयामः-पौनःपुन्येन रक्षयामः, एभिर्बहुवचनान्तपदैर्वयमिति कर्तृपदं योज्यं तान् भावान् श्रद्दधानः प्रतिपद्य-18 मानै रोचयद्भिः स्पृशद्भिः पालयद्भिः अनुपालयङ्गिः, अन्तः-मध्ये पक्षस्य यद्वाचितं-परेभ्यो दत्तं, पठितं-अधीतं, परिवर्तितं-सूत्रतो गुणितं, पृष्टं-पूर्वाधीतस्य सूत्रादेः शङ्कितादौ प्रश्नः कृतः, अनुप्रेक्षितम्-अर्थविस्मरणभयादिना चिन्तितं, अनुपालितम्-एभिः प्रकारैरनघमनुष्ठितं, तहुःखक्षयाय कर्मक्षयाय मोक्षाय बोधिलाभाय संसारोत्तारभणाय, अस्माकं भविष्यतीति गम्यते इतिकृत्वा-इतिहेतोः उपसंपद्य-अङ्गीकृत्य णं इति वाक्यालंकारे विहरामि, For Private & Personal Use Only N ww.jainelibrary.org Join Education Integ ral Pol
SR No.600096
Book TitleDharmsangraha
Original Sutra AuthorManvijayji, Yashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy