SearchBrowseAboutContactDonate
Page Preview
Page 205
Loading...
Download File
Download File
Page Text
________________ द्रव्यतः अशनं वा पान वा खादिमं वा खादिम वा, क्षेत्रतः समयक्षेत्रे-मनुष्यलोके, तत्रैव रात्रिभावात् , कालतः रात्री, भावतः तिक्तं वा कटुकं वा कषायं वा अम्लं वा लवणं वा मधुरं वा, शेषं०, रात्रिभोजनं भुक्तं वा भोजितं वा भुज्यमानं वा परैः समनुज्ञातं, शेषं०६। अथ सर्वेषां व्रतानां समकालोचारमाह-"इच्चेइयाइं पंच महत्वयाई राईभोयणवेरमणछट्ठाई अत्तहिअट्टयाए उवसंपजित्ता णं विहरामि” इत्येतानि पञ्च महाव्रतानि रात्रिभोजनविरमणषष्ठानि आत्महितार्थ 'उपसंपद्य' सम्यक् प्रतिपद्य विचरामि । अथ महाव्रतानां यथाक्रमममतीचारानाह-"अप्पसत्था य जे जोगा, परिणामा य दारुणा । पाणाइवायस्स वेरमणे, एस वुत्ते अइक्कमे ॥१॥ तिवरागा य जा भासा, तिवदोसा तहेव य । मुसाबायस्स वेरमणे, एस वुत्ते अइक्कमे ॥२॥ उग्गहं च अजाइत्ता, अविदिन्ने अ उग्गहे । अदिन्नादाणस्स वेरमणे०॥३॥ सद्दारुवारसागंधाफासाणं पवियारणे । मेहुणस्स वे०॥४॥ इच्छा मुच्छा य गेही य, कंखालोभे अ दारुणे । परिग्गहस्स वेरमणे ॥५॥ अइमत्ते अ आहारे, सूरखित्तंमि संकिए।राइभोअण॥६॥” 'अप्रशस्ताः ' असुन्दराः 'चः' समुच्चये 'ये' 'योगा' अयतचमणभाषणादयो व्यापाराः 'परिणामाश्च भूतघाताद्यध्यवसायाः 'दारुणा' रौद्राः प्राणातिपातस्य विरमणे|8 एषो यः अतिक्रमोऽतिचार उक्त इति मत्वा तान् परिहरेदिति सर्वत्र योजना कार्या १। 'तीव्ररागा' उत्कटविष-12 यानुबन्धा या भाषा तथैव च तीब्रद्वेषा-उग्रमत्सरा भाषा मृषावादस्य विरमणे एषोऽतिक्रमोऽतिचार उक्तः २। अवग्रहं-आश्रयं अयाचित्वा स्वामिनः खामिसन्दिष्टाद्वा सकाशादननुज्ञाप्य, तत्रैव यदवस्थानमिति गम्यं, Main Education For Private Personal use only W ww.jainelibrary.org
SR No.600096
Book TitleDharmsangraha
Original Sutra AuthorManvijayji, Yashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy