________________
धर्मसंग्रह अधिकारः
१६
भावः तदावरणक्षयोपशमसमुत्य आत्मपरिणामविशेषस्तस्य विशुद्धिः-खच्छता प्रकर्षरूपा तस्याः सकाशादि- प्रव्रज्यात्यर्थः, स कीइंग भवतीत्याह-'यतिधर्मस्य योग्य' इति, यतिः-अोऽहंसमीपे विधिप्रवजित इति वक्ष्यमाण- हीडणाः लक्षणस्तस्य धर्म:-मूलोत्तरगुणाचारस्तस्य योग्यः-तदभ्युपगमपरिपालनसमर्थः 'स्याद् भवेत्, कस्माद्धेतोः?'पापकर्मणः' चारित्रप्रतिबन्धकमोहनीयप्रकृतिरूपस्य 'मोचनात्' पृथग्भावात्, क्षायोपशमिकादिपरिणामेनोदितावस्थत्वपरित्यागादित्यर्थः, अत एव श्रेयोदानाशिवक्षपणाभ्यां दीक्षायोग्यताऽस्य घटते, तदुक्तं षोडशके"श्रेयोदानादशिवक्षपणाच सतां मतेह दीक्षेति । सा ज्ञानिनो नियोगाद्यथोदितस्यैव साध्वीति ॥१॥" ज्ञानित्वं च गुरुचरणसेवारतानां दृढसम्यग्दर्शनानां परिपालितनिखिलश्राद्धसामाचारीसमुल्लसितसंवेगपरिणामानां सुव्यक्तमेव ॥७२॥ यतिधर्मयोग्यता च कतिपयगुणसमूहरूपा अतस्तानेव गुणानामग्राहं गुणिमुखेन षडिः श्लोकः प्रदर्शयति, तथाहिआर्यदेशसमुत्पन्नः १, शुद्धजातिकुलान्वितःशक्षीणप्रायाशुभकर्मा ३, तत एव विशुद्धधीः ४ ॥७३॥६॥ दुर्लभं मानुषं जन्म, निमित्तं मरणस्य च । सम्पदश्चपला दुःखहेतवो विषयास्तथा ॥ ७४॥ संयोगे विप्रयोगश्च, मरणं च प्रतिक्षणम् । दारुणश्च विपाकोऽस्य, सर्वचेष्टानिवर्त्तनात् ॥ ७५ ॥
Doeseeeeeeeeeeeeeeeeeee
in Eduent an intem
For Private & Personel Use Only
IANdjainelibrary.org