SearchBrowseAboutContactDonate
Page Preview
Page 178
Loading...
Download File
Download File
Page Text
________________ धर्मसंग्रहा ।महाव्रतैः-प्राणातिपातविरमणादिभिस्तेषु प्रतिषिद्धकरणादिनाऽतिचारसंभवोऽथवा संघटनपरितापनादिभिः साधुप्रतिअधिकारः प्राणातिपातादिविषया अतिचारा भावनीयाः। पञ्चभिः समितिभिर्व्याख्यास्यमानाभिः, तत्रादानं-ग्रहणं निक्षे-15 क्रमणं पणा-विमोचनं भाण्डमात्रं-सर्वोपकरणं, मध्यस्थितश्च भाण्डमात्रशब्द उभयत्र सम्बध्यते, तेन भाण्डमात्र- व्याख्या स्थादाने निक्षेपणायां च समितिस्तया, तथोचार:-पुरीषं,प्रश्रवणं-मूत्रं, खेलो-निष्ठीवनं, जल्लो-मलं, सिंघाणो॥८१॥ नासिकामलं, एतेषां परिष्ठापना-अपुनर्ग्रहणतयाऽभ्यासस्तत्र भवा पारिष्ठापनिकी, सा चासौ समितिश्च तया, शेष सुगम । षड्भिर्जीवनिकायैः' 'षभिर्लेश्याभिः' तत्र सकलप्रकृतिनिष्यन्दभूतकृष्णादिद्रव्यसाचिव्यात् स्फटिकस्येवात्मनस्तथापरिणामो लेश्या, ताश्च कृष्णाद्याः षट्, तत्वरूपं च ग्रामवधार्थनिर्गतचौरजम्बूखादकषट्पुरुषदृष्टान्ताभ्यां ज्ञेयम् , अत्र च तिसृष्वाद्यासु वर्त्तनेनान्त्यासु तिसृष्ववर्त्तनेन चातिचार इति । 'प्रतिक्रमामि सप्तभिर्भयस्थानः' भयस्थानानि-भयस्याश्रया इहपरलोकादानाकस्मादाजीवमरणाश्लोकरूपाः, तत्रेहलोकभयंसजातीयान्मनुष्यादेर्भयं, परलोकभयं-परस्मात्तिर्यगादेः, आदान-धनग्रहणं तद्भय, मा चौरादिर्ग्रहीदिति, अकस्मादेव-बाह्यनिमित्तानपेक्षं गृहादिस्थितस्य तमसि वा यद्भयं तदकस्माद्भयम्, आजीविकाभयं निर्द्धनस्य कथं दुर्भिक्षादौ मे निर्वाहः? इति मरणभयापकीर्तिभये प्रतीते । अतः परं प्रतिक्रमामीति क्रियापदं स्थानप-IS॥१॥ रिगणनं च भगवता सूत्रकृता नोक्ते इति स्वयमवसेये । 'अष्टभिर्मदस्थानः' जातिकुलबलरूपतपऐश्वर्यश्रुतलाभोत्थैः 'नवभिब्रह्मचर्यगुप्तिभिः' ब्रह्मरक्षोपायभूताभिर्वसत्यादिभिः चरणसप्ततौ व्याख्यास्यमानाभिः 'दश-1 Jain Education in For Private 3 Personal Use Only tellwjainelibrary.org
SR No.600096
Book TitleDharmsangraha
Original Sutra AuthorManvijayji, Yashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy