________________
55%
A
सणस्स ४ । सुस्सूसणं कुणतो, गुरुसुस्सूसो हवइ चउहा ॥ ८॥” सेवया पर्युपासनेन १, कारणेन गुरुजन
वर्णवादकरणादन्यजनप्रवर्त्तनेन २, संपादनं गुरोरौषधीनां प्रदानं ३, भावो गुरुजनचेतोऽनुवर्त्तनं ४,४ एतैश्चतुर्भिः प्रकारैः गुरुजनस्याराध्यवर्गस्य शुश्रूषां कुर्वन गुरुशुश्रूषको भवतीति । यद्यपि गुरवो मातृपित्रादयोऽपि भण्यन्ते तथाऽप्यत्र धर्माधिकाराद्धर्माचार्यादय एव प्रस्तुता इति हाईम् । अथ प्रवचनकुशल इति षष्ठं भावश्रावकलक्षणं चेत्थम् “सुत्ते १ अत्थे अ २ तहा, उस्सग्ग ३ ववाय ४ भाव ५ ववहारे ६। जो कुसलतं पत्तो, पवयणकुसलो तओ छद्धा ॥९॥" सूत्रे सूत्रविषये यः कुशलत्वं, प्राप्त इति प्रत्येक योजनीयं, श्रावकपर्यायोचितसूत्राध्येतेत्यर्थः १, तथाऽर्थे सूत्राभिधेये संविग्नगीतार्थसमीपे सूत्रार्थश्रवणेन कुशलत्वं प्राप्त इत्यर्थः २, उत्सर्गे सामान्योक्तौ ३ अपवादे विशेषभणिते कुशलः । अयं भाव:केवलं नोत्सर्गमेवावलम्बते, नापि केवलमपवादं, किन्तुभयमपि यथायोगमालम्बत इत्यर्थः ४, भावे विधिसारे धर्मानुष्ठाने करणस्वरूपे कुशलः । इदमुक्तं भवति-विधिकारिणमन्यं बहु मन्यते, स्वयमपि सामग्रीसद्भावे यथाशक्ति विधिपूर्वकं धर्मानुष्ठाने प्रवर्तते । सामय्या अभावे पुनर्विध्याराधनमनोरथान्न मुश्चत्येवेति ५, व्यवहारे गीतार्थाचरितरूपे कुशलः देशकालाद्यपेक्षयोत्सर्गापवावेदिगुरुलाघवपरिज्ञाननिपुणगीतार्थाचरितं व्यवहारं न दृषयतीतिभावः ६ । “एसो पवयणकुसलो, छन्भेओ मुणिवरेहिं |निद्दिहो। किरियागयाई छबिह-लिंगाई भावसद्धस्स ॥१०॥” एतानि भावभावकस्य क्रियोपलक्षणानि
CANCIENCACANCE
ध. सं. ९
jainelibrary.org
Jain Education in
For Private 8 Personal Use Only
2