SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ PORDER जीवः करोति मिथ्यात्वाविरतिकषायादिबन्धहेतुयुक्ततया तत्तत्कर्माणि निवर्तयति, एतेन कपिलकल्पनाप्रतिक्षेपः ३, 'कयमिति' कृतं कर्म च वेद्यते 'सव्वं पएसतया भुजईत्तिवचनादनेन सर्वथाऽभोक्तजीववादी दुर्नयो निराकृतः ४, 'अस्थि निव्वाणं ति अस्य च जीवस्यास्ति विद्यते निर्वाणं मोक्षः, सच जीवस्य रागद्वेषमदमोहजन्मजरारोगादिदुःखक्षयरूपोऽवस्थाविशेष इतियावद् एतेन प्रदीपनिर्वाणकल्पमभावरूपं निर्वाणमित्यादि सङ्गिरमाणाः सौगतविशेषाः व्युदस्ताः, ते च प्रदीपस्येवास्य सर्वथा ध्वंस एवं निर्वाणमाहुस्तथा च तद्वचः “दीपो यथा निर्वृतिमभ्युपेतो, नैवावनिं गच्छति नान्तरिक्षम् । दिशं न काञ्चिविदिशं न काश्चित्लेहक्षयात् केवलमेति शान्तिम् ॥शा" इति जीवः (वाभावः), तच्चायुक्तं, दीक्षादिप्रयासवैयात, प्रदीपदृष्टान्तस्याप्यसिद्धत्वादि(त्यादि)युक्तिविस्तरस्त ग्रन्थान्तरादवसेयः ५, “अस्थि अ मोक्खोवाओ'त्ति मोक्षस्य निर्वृतेरुपायः सम्यक्साधनं विद्यते सम्यग्ज्ञानदर्शनचारित्राणां मुक्तिसाधकतया घटमानत्वात्, अनेनापि मोक्षोपायाभावप्रतिपादकदुर्नयतिरस्कारः कृतः ६, एतान्यात्मास्तित्वादीनि षट् सम्यक्त्वस्य स्थानानि, सम्यक्त्वमेषु सत्खेव भवतीतिभावः । एषां च भेदानां यथासंभवं ज्ञानश्रद्धाचरणविधया सम्यक्त्वमु(उ)पयोगित्वमिति ध्येयम् । इत्थं च देवादितत्त्वश्रद्धानविकलत्वे तथाविधाजीविकादिहेतोः श्रावकाकारधरणे द्रव्यश्रावकत्वमेव च पर्यवसन्नं, भावश्रावकत्वं तु यथोक्तविधिप्रतिपन्नसम्यक्त्वादियतिभ्यः सकाशान्नित्यं धर्मश्रवणादेव, यदुक्तं आवश्यकवृत्तौ-"यो ह्यभ्युपेतसम्यक्त्वो, यतिभ्यः प्रत्यहं कथाम् । Jan Education in For Private Personel Use Only
SR No.600095
Book TitleDharmsangraha
Original Sutra AuthorManvijayji, Yashovijay Upadhyay
AuthorAnandsagarsuri, Sagaranandsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1915
Total Pages522
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy