________________
A
धर्म
॥४६॥
द्विषटस्थापि द्वादशभेदस्यापि पश्चाणुव्रतत्रिगुणवतचतु:शिक्षाव्रतरूपधर्मस्य चारित्रविषयस्य इदं सम्यक्त्वं मूलमिव मूलं कारणमित्यर्थः, परिकीर्तितं जिनैरिति सर्वत्र संबन्धः । यथा मूलरहितः पादपः पवनकम्पितस्तत्क्षणादेव निपतति, एवं धर्मतरुरपि सम्यक्त्वहीनः कुतीर्थिकमतान्दोलितः १, द्वारमिव द्वारं प्रवेशमुखमितिभावः, यथा ह्यकृतद्वारं नगरं सन्ततप्राकारवलयवेष्टितमप्यनगरं भवति, जनप्रवेशनिर्गमाभावात्, एवं धर्मपुरमपि सम्यक्त्वद्वारशून्यमशक्याधिगमं स्यादिति २, पइहाणं-प्रतिष्ठते प्रासादोऽस्मिन्निति प्रतिष्ठानं पीठं, ततः प्रतिष्ठानमिव प्रतिष्ठानं, यथा पृथ्वीतलगतगर्त्तापूरकरहितः प्रासादः सुदृढो न भवति, तथा धर्महर्म्यमपि सम्यक्त्वरूपप्रतिष्ठानं विना निश्चलं न भवेदिति । आहारोत्तिआधारः यथा धरातलमन्तरा निरालम्बं जगदिदं न तिष्ठति, एवं धर्मजगदपि सम्यक्त्वलक्षणाधारव्यतिरेकेण न तिष्ठेदिति ४, भायणंति भाजनं पात्रमित्यर्थः, यथा हि पात्रविशेषं विना क्षीरादि वस्तु विनश्यति, एवं धर्मवस्त्वपि सम्यक्त्वभाजनं विना ५, निहित्ति निधिः यथा हि निधिव्यतिरेकेण महाहमणिमौ-1 क्तिककनकादि द्रव्यं न प्राप्यते, तथा सम्यक्त्वनिधानमन्तरा चारित्रधर्मरत्नमपि ६, इत्येताभिः षभिर्भावनाभिर्भाव्यमानमिदं सम्यक्त्वमविलम्बेन मोक्षसुखसाधकं भवतीति । षट्स्थाने-अत्थित्ति अस्ति विद्यते, चशब्दस्याऽवधारणार्थवाजीव इति गम्यते, एतेन नास्तिकमतं निरस्तं १, 'निचोत्ति-सच जीवो नित्य उत्पत्तिविनाशरहितः, तदुत्पादककारणाभावादित्यादिना शौद्धोदनिमतमपध्वस्तं २, 'कुणइत्ति सच
CANCIENCEOCALCIS2005
Jain Education in
For Private & Personel Use Only
Mr.jainelibrary.org