SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ ध्वनिभिर्गुणोत्कीर्तनं । तथाऽन्यतीर्थिकैः पूर्वमनालप्सः सन्नवालपामि ३, नापि संलपामि, तत्रेषद्भाषणमालापः, मुहर्भाषणं संलापः ४, तत्संभाषणे हि तैः सह परिचयात् प्रतिक्रियाश्रवणदर्शनादिभिर्मिथ्यात्वप्रसक्तिरपि स्थादेव । तथा तेषामन्यतीर्थिकाणां न ददामि अशनादिकं अनुकम्पां विहाय, अनुकम्पायाश्च कुत्राप्यनिषेधात, यत उक्तम्-"सव्वेहिंपि जिणेहिं, दुज्जयजिअरागदोसमोहेहिं । सत्ताणुकंपणट्ठा, दाणं न कहिं वि पडिसिद्धं ॥१॥"५, तथा तेषां परतीर्थिकदेवानां तत्प्रतिगृहीतजिनप्रतिमानां च पूजानिमित्तं नैव प्रेक्ष्यामि गन्धपुष्पादिकं, आदिशब्दाद्विनयवैयावृत्त्ययात्रालानादिकं ६, एताभिः षभियतनाभिर्यतमानः सम्यक्त्वं नातिकामतीति। आकारषटे-अभियोजनमभियोगोऽनिच्छतोऽपि व्यापारणं, तत्र राज्ञो नृपादेरभियोगो राजाभियोगः १, गणः स्वजनादिसमुदायस्तस्याभियोगो गणाभियोगः २, बलं हठप्रयोगस्तेनाभियोगः ३, सुरस्य कुलदेवतादेरभियोगः ४, कान्तारमरण्यं तत्र वृत्तिर्वर्त्तनं निर्वाहः कान्तारवृत्तिर्यदा कान्तारमपि बाधाहेतुत्वादिह बाधात्वेन विवक्षितं तेन कारणेन बाधया वृत्तिः प्राणवर्तनरूपा कान्तारवृत्तिः कष्टेन निर्वाह इतियावत् ५। गुरवो मातृ(ता)पितृप्रभृतयः यदुक्तम्-"माता पिता कलाचार्य, एतेषां ज्ञातयस्तथा। वृद्धा धर्मोपदेष्टारो, गुरुवर्गस्सतां मतः॥१॥” तेषां निग्रहो निबन्धः ६। तदेताः षट् छिण्डिकाः अपवादरूपा जिनशासने भवन्ति, इदमत्र तात्पर्यम्-प्रतिपन्नसम्यक्त्वस्य परतीर्थिकवन्दनादिकं निषिद्धं, तद्राजाभियोगादिभिरेभिः कारणैर्भक्तिवियुक्तो द्रव्यतः समाचरन्नपि सम्यक्त्वं नाभिचरतीति । षड्भावनायां Jain Education in For Private & Personel Use Only Timejainelibrary.org
SR No.600095
Book TitleDharmsangraha
Original Sutra AuthorManvijayji, Yashovijay Upadhyay
AuthorAnandsagarsuri, Sagaranandsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1915
Total Pages522
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy