SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ धर्म संग्रह. । देशकालाद्यौचित्येन साहाय्यकरणात् प्रभावकाः, प्रभवन्तं खतः प्रकाशकस्वभावमेव प्रेरयन्तीति व्युत्पत्ते, ततेषां कर्म प्रभावना, इत्थं च मूलद्वारगाथायां अष्टौ प्रभावना यत्रेति समासः । भूषणपश्चके-जिनशास॥४५॥ नेऽहंदर्शनविषये कुशलता नैपुण्यं १, प्रभावना प्रभावनमित्यर्थः । सा च प्रागष्टधाभिहिता, यत्पुनरिहोपादानं तदस्याः स्वपरोपकारित्वेन तीर्थकरनामकर्मनिवन्धनत्वेन च प्राधान्यख्यापनार्थ २, तथा तीर्थ द्रव्यतो जिनदीक्षाज्ञाननिर्वाणस्थानं यदाह-"जम्मं दिक्खा नाणं, तित्थयराणं महाणुभावाणं । जत्थ य किर निव्वाणं, आगाढं दंसणं होई ॥१॥” त्ति, भावतस्तु ज्ञानदर्शनचारित्राधारः श्रमणसङ्घः, प्रथमगणधरो वा, यदाह-"तित्थं भंते तित्थं ? तित्थयरे तित्थं ! गोयमा ! अरिहा ताव नियमा तित्थयरे, तित्थं 8 पुण चाउव्वण्णे समणसंघे, पढमगणहरे वा” इति, तस्य सेवनं ३, स्थिरता जिनधर्म प्रति परस्य स्थिरताऽऽपादनं, खस्य वा परतीर्थिकसमृद्धिदर्शनेऽपि जिनप्रवचनं प्रति निष्कम्पता ४, भक्तिः प्रवचने विनयवैयावृत्त्यरूपा प्रतिपत्तिः, एते गुणाः सम्यक्त्वस्य दीपकाः प्रभासकाः, उत्तमाः प्रधानाः, भूषणानि एतैः सम्यक्त्वमलकियत इति भावः। लक्षणानि पञ्च व्याख्यातानि । षडिधयतनायाम्-अन्यतीर्थिकान् परदर्शनिनः परिव्राजकभिक्षुभौतिकादीन अन्यतीर्थिकदेवान् रुद्रविष्णुयक्षादीन तथा स्वदेवान् अर्हत्पतिमालक्षणान् कुतीर्थिकैर्दिगम्बरादिभिहीतान् भौतिकादिपरिगृहीतान्महाकालादीन् नो नैव वन्दे वा १, न नमस्यामि २, तद्भक्तानां मिथ्यात्वस्थिरीकरणात् । तत्र वन्दनं शिरसाऽभिवादनं, नमस्करणं प्रणामपूर्व प्रशस्त ॥४५॥ Jain Education Intel For Private & Personel Use Only K ainelibrary.org
SR No.600095
Book TitleDharmsangraha
Original Sutra AuthorManvijayji, Yashovijay Upadhyay
AuthorAnandsagarsuri, Sagaranandsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1915
Total Pages522
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy