SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ 54555SASASUSMS रात्तवानपि दर्शममुच्यते। एतेषु दशसु भक्तिरभिमुखागमनासनप्रदानपर्युपास्त्यञ्जलियन्धाद्या, पूजा सत्काररूपा, वर्णः प्रशंसा, तजननमुद्भासनम्,अवर्णवादस्याश्लाघाया वर्जनं परिहारः।आशातना प्रतीपवर्त्तनं तस्याः परिहारः । एष दशस्थानविषयत्वाद्दशविधो दर्शनविनयः, सम्यक्त्वे सत्यस्य भावात् सम्यक्त्वविनयः। त्रिशुद्ध्यां जिनं वीतरागं जिनमतं स्यात्पदलाञ्छितं जिनमतस्थितांश्च साध्वादीन् मुक्त्वा शेषमेकान्तग्रस्तं जगदपि संसारमध्ये कचवरप्रायं असारमित्यर्थः, इतिचिन्तया सम्यक्त्वस्य विशोध्यमानत्वादेतास्तिस्रः शुद्धय इति। पञ्च दोषा अग्रे मूल एव वक्ष्यमाणाः, अष्टप्रभावनायां-प्रभवति जैनेन्द्र शासनं,तस्य प्रभवतः प्रयोजकत्वं प्रभावना, सा चाष्टधा प्रभावकभेदेन, तत्र प्रवचनं द्वादशाङ्गं गणिपिटक, तदस्यास्तीति प्रावचनी युगप्रधानागमः १, धर्मकथा प्रशस्ताऽस्यास्तीति धर्मकथी, " शिखादित्वादिन” (शिखादिभ्य इन् श्री सि० ७२-४ ) आक्षेपणीरविक्षेपणीरसंवेगजननी निवेदनी/लक्षणां चतुर्विधां जनितजनमनाप्रमोदां| धर्मकथां कथयति सः २, वादिप्रतिवादिसभ्यसभापतिरूपायां चतुरङ्गायां परिषदि प्रतिपक्षक्षेपपूर्वक स्वपक्षस्थापनार्थमवश्यं वदतीति वादी ३, निमित्तं त्रैकालिकलाभालाभप्रतिपादकं शास्त्रं, तवेत्त्यधीते वा नैमित्तिकः ४, तपो विकृष्टमष्टमाद्यस्यास्तीति तपस्वी ५, विद्याः प्रज्ञप्त्यादयस्तद्वान् विद्यावान् ६, सिद्धयोञ्जनपादलेपतिलकगुटिकाकर्षणवैक्रियत्वप्रभृतयस्ताभिः सिद्ध्यति स्म सिद्धः ७, कवते गद्यपद्यादिभिः प्रबन्धैवणेनामिति कविर्गद्यपद्यप्रबन्धरचकः८। एते प्रवचन्यादयोऽष्टौ प्रभवतो भगवच्छासनस्य यथायथं Jain Education inte For Private Personal use only inbrary.org
SR No.600095
Book TitleDharmsangraha
Original Sutra AuthorManvijayji, Yashovijay Upadhyay
AuthorAnandsagarsuri, Sagaranandsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1915
Total Pages522
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy