________________
धर्म
संग्रह.
द्वारगाथायां च चतुःश्रद्धानादिशब्दानां चतुर्विधं श्रद्धानं चतुःश्रद्धानं, त्रिविधं लिङ्ग त्रिलिङ्ग, दशविधो-द
विनयो दशविनयः, त्रिविधा शुद्धिस्त्रिशुद्धिरित्यादि व्युत्पत्ति या। त्रिलिङ्गे-श्रोतुमिच्छा शुश्रूषा, सद्धो॥४४॥
धावन्ध्यनिबन्धनधर्मशास्त्रश्रवणवाञ्छेत्यर्थः । सा च वैदग्ध्यादिगुणवत्तरुणनरकिन्नरगानश्रवणरागादप्यधिकतमा सम्यक्त्वे सति भवति।यदाह-"यूनो वैदग्ध्यवतः,कान्तायुक्तस्य कामिनोऽपि दृढम् । किन्नरगेयश्रवणादधिको धर्मश्रुतौ रागः॥१॥"इतिशतथा धर्मे चारित्रलक्षणे रागः, श्रुतधर्मरागस्य तु शुश्रूषापदेनैवोक्तत्वात्। स च कर्मदोषात्तदकरणेऽपि कान्तारातीतदुर्गतबुभुक्षाक्षामकुक्षिब्राह्मणघृतभोजनाभिलाषादप्यतिरिक्तो भवति २।तथा गुरवो धर्मोपदेशका देवा अर्हन्तस्तेषां वैयावृत्त्ये तत्प्रतिपत्तिविश्रामणाभ्यर्चनादौ नियमोऽवश्यंकर्तव्यताङ्गीकारः। स च सम्यक्त्वे सति भवतीति । तानि सम्यग्दृष्टः धर्मधर्मिणोरभेदोपचारात् सम्यक्त्वस्य लिङ्गानि, एभिस्त्रिभिर्लिङ्गैः सम्यक्त्वं समुत्पन्नमस्तीति निश्चीयत इतिभावः। वैयावृत्त्यनियमस्य च तपोभेदत्वेन चारित्रांशरूपत्वेऽपि सम्यक्त्वे सत्येवावश्यंभावित्वेऽपि नाविरतसम्यग्दृष्टिगुणस्थानकाऽभावप्रयोजकतोद्भाव्या, एतदूपचारित्रस्याल्पतमत्वेनाचारित्रतया विवक्षितत्वात् । संमूर्छनजानां संज्ञामात्रसद्भावेऽपि विशिष्टसंज्ञाऽभावादसंज्ञित्वव्यपदेशवदिति । उपशान्तमोहादिषु तु कृतकृत्यत्वादेषां साक्षा
दभावेऽपि फलतया सद्भावान्न तेष्वप्यतेषां व्यभिचार वैयावृत्त्यनियमश्वोपरिष्टात् श्राद्धविधिपाठेन दर्शयिष्यमत इति ततोऽवसेयः । दशविनये चैत्यान्यहत्प्रतिमाः, प्रवचनं जीवादितत्त्वं, दर्शनं सम्यक्त्वं तदभेदोपचा
RECRUSHKARSES5
ROCCAMGACANA-NCREACOCN
॥ ६०
Jain Education
For Private & Personel Use Only
albainelibrary.org