________________
4567
संग्रह.
॥४२॥
तृष्णोपशमश्चेच्छमस्तर्हि श्रेणिककृष्णादीनां सापराधे निरपराधेऽपि च परे क्रोधवतां विषयतृष्णातरलितमनसां च कथं शमः? तद्भावे च कथं सम्यक्त्वसंभवः ? इति चेन्मैवं, लिङ्गिनि सम्यक्त्वे सति लिङ्गैरवश्यं | भाव्यमिति नायं नियमः, दृश्यते हि धूमरहितोऽप्ययस्कारगृहेषु वहिः, भस्मच्छन्नस्य वा वहेर्न धूमलेशोऽपीति। अयं तु नियमः सुपरीक्षितो-लिङ्गे सति लिङ्गी भवत्येव, यदाह-लिङ्गे लिङ्गी भवत्येव, लिङ्गिन्येवेतरत्पुनः । नियमस्य विपर्यासे,संबन्धो लिङ्गलिङ्गिनोः॥१॥ इति।संज्वलनकषायोदयादा कृष्णादीनांक्रोधकण्डूविषयतृष्णे। संज्वलना अपि केचन कषायास्तीव्रतयाऽनन्तानुबन्धिसदृशविपाका इति सर्वमवदातं । संवेगो मोक्षाभिलाषा, सम्यग्दृष्टिर्हि नरेन्द्रसुरेन्द्राणां विषयसुखानि दुःखानुषङ्गाहुःखतया मन्यमानो मोक्षसुखमेव सुखत्वेन मन्यतेऽभिलषति च । यदाह-नरविवुहेसरसुक्खं, दुक्खं चिअ भावओ अ मन्नंतो।संवेगओन मोक्खं, मोत्तूणं किंचि पत्थेइ ॥२॥"त्ति, निर्वेदो भववैराग्यं, सम्यग्दर्शनी हि दुःखदौर्गत्यगहने भवकारागारे कर्मदण्डपाशकैस्तथा कर्थ्यमानः प्रतिकर्तुमक्षमो ममत्वरहितश्च दुःखेन निर्विण्णो भवति । यदाह-नारयतिरिअनरामरभवेसु निव्वेअओ वसइ दुक्खं । अकयपरलोअमग्गो, ममत्तविसवेगरहिओ अ ॥१॥" अन्ये तु संवेगनिर्वेयोरर्थविपर्यासमाहुः-संवेगो भवविरागः निर्वेदो मोक्षाभिलाष इति ३॥ अनुकम्पा दुःखितेप्वपक्षपातेन दुःखप्रहाणेच्छा, पक्षपातेन तु करुणा पुत्रादौ व्याघ्रादीनामप्यस्त्येव, सा चानुकम्पद्रव्यतो भावतश्चेति विधा, द्रव्यतः सत्यां शक्तौ दुःखप्रतीकारेण, भावतश्चाहृद्यत्वेन, यदाह-दट्टण पाणिनिवहं, भीमे
॥४२॥
Jain Education in
For Private & Personel Use Only
jainelibrary.org