________________
SALEMSROGRALCALCAMERICA
दर्शितो, विपर्यस्तबोधसंभवात्। 'श्रुतधर्मः' आकर्णिताणुव्रतादिप्रतिपादनपराप्तप्रवचनः, अनेन चाश्रुतागमस्य ज्ञानाभावेन व्रतप्रतिपत्तिर्न सम्यगिति तत्प्रतिषेधो दर्शितो, यदाह-"जस्स नो इमं उवगयं भवइ, इमे जीवा इमे थावरा (इमे तसा) तस्स नो सुपच्चक्खायं भवइ, से दुप्पचक्खायं भवइ, से दुप्पचक्खाई मोसं भासइ, नो सचं भासई"त्ति । तथा खयमुत्प्रेक्षितशास्त्रस्यापि प्रतिषेध उक्तः। खयमुत्प्रेक्षणे हि सम्यकशास्त्रानवगमेन सम्यक्प्रवृत्त्यभावात् यदाह-"नहि भवति निर्विगोपकमनुपासितगुरुकुलस्य विज्ञानम् । प्रकटितपश्चाद्भागं, पश्यत नृत्यं मयूराणाम् ॥ १॥” तथा ज्ञातधर्मवादेव संविग्नो मोक्षाभिलाषी सन् संसारभीतो वा, अन्यथाविधस्य हि व्रतप्रतिपत्तिर्न मोक्षाय स्यात्, इत्वरमल्पकालं, इतरं वा बहुकालं यावज्जीवमित्यर्थः । इति पूर्वगाथासूचितो वधवर्जनविधिः । इत्यलं प्रासङ्गिकेन प्रकृतं प्रस्तुमः । तच सम्यक्त्वं शुभात्मपरिणामरूपमस्मदीयानामप्रत्यक्षं केवलं लिङ्गैलेक्ष्यते, अत आह-सम्यक्त्वं कीदृशं भवति? 'पञ्चेति' पञ्चभिः शमसंवेगनिर्वेदानुकम्पाऽऽस्तिक्यरूपैर्लक्षणैर्लिङ्गैलेक्षितं उपलक्षितं भवति, एभिलक्षणैः परस्थं परोक्षमपि सम्यक्त्वं लक्ष्यते इति भावः। तत्र शमः प्रशमः अनन्तानुबन्धिनां कषायाणामनुदयः, सच प्रकृत्या कषायपरिणते: कटुफलावलोकनादा भवति, यदाह-पयईए कम्माणं, नाऊणं वा विवागमसुहंति । अवरद्धेवि न कुप्पइ, उवसमओ सव्वकालंपि ॥१॥"त्ति ॥ अन्ये तु क्रोधकण्डूविषयतृष्णोपशमः शम इत्याहुः। अधिगतसम्यग्दर्शनो हि साधूपासनावान् कथं क्रोधकण्ड्डा विषयतृष्णया च तरलीक्रियेत । ननु क्रोधकण्डूविषय
ताकवलं लिङ्गैलक्ष्यत लक्षित उपलक्षितना कषाया
Jain Education in
a
For Private & Personel Use Only
jainelibrary.org