________________
संग्रह.
॥४०॥
निन्ददति भावः । तच नास्त्या मापतपादिकल्पानांच प्रज्ञपिलादिषु । युक्तिमा
जैनोऽपि खकुलाचारेणैवागमपरीक्षांबाधते, तस्याभिग्राहिकत्वमेव, सम्यग्दृशोऽपरीक्षितपक्षपातित्वायोगात्, तदुक्तं हरिभद्रसूरिभिः-"पक्षपातोन मे वीरे,न द्वेषः कपिलादिषु । युक्तिमद्वचनं यस्य, तस्य कार्यः परिग्रहः ४॥१॥"इति।गीतार्थनिश्रितानांमाषतुषादिकल्पानांच प्रज्ञापाटवाभावादिवेकरहितानामपि गुणवत्पारतच्यान्न
दोष इति भावः। तच्च नास्त्यात्मेत्यादि षडिकल्पैः षड्डिधं शअनाभिग्रहिकं प्राकृतजनानां, सर्वे देवा वन्द्या न निन्दनीया, एवं सर्वे गुरवः सर्वे धर्मा इतीत्याद्यनेकविधं। आभिनिवेशिकं जानतोऽपि यथास्थितं दुरभिनि-IP वेशविप्लावितधियोगोष्ठामाहिलादेरिव अभिनिवेशोऽनाभोगात्प्रज्ञापकदोषाद्वा वितथश्रद्धानवति सम्यग्दृष्टावपि स्याद् , अनाभोगाद्गुरुनियोगाद्वा सम्यग्दृष्टेरपि वितथश्रद्धानभणनात्,तथाचोक्तमुत्तराध्ययननियुक्ती |“सम्महिट्ठी जीवो, उवइ8 पवयणं तु सद्दहइ। सद्दहइ असम्भावं, अणभोगा गुरुणिओगा वा॥१॥” इति।तहारणाय दुरिति विशेषणं, सम्यग्वक्तृवचनानिवर्तनीयत्वं तदर्थः । अनाभोगादिजनितो मुग्धश्राद्धादीनां वितथश्रद्धानरूपोऽभिनिवेशस्तु सम्यग्वक्तृवचननिवर्तनीय इति न दोषः । तथापि जिनभद्रसिद्धसेनादिप्रावचनिकप्रधानविप्रतिपत्तिविषयपक्षद्वयेऽप्यन्यतरस्य वस्तुनः शास्त्रबाधितत्वात्तदन्यतरश्रद्धानवतोऽभिनिवेशित्वप्रसङ्ग इति तद्वारणार्थ 'जानतोऽपीति शास्त्रतात्पर्यबाधप्रतिसन्धानवता, सिद्धसेनादयश्च स्वाभ्युपगतमर्थ शास्त्रतात्पर्यबाधं प्रतिसंधायापि पक्षपातेन न न प्रतिपन्नवन्तः, किन्त्वविच्छिन्नप्रावनिकपरम्परया |शास्त्रतात्पर्यमेव खाभ्युपगतार्थानुकूलत्वेन प्रतिसंधायेति न तेऽभिनिवेशिनो । गोष्ठामाहिलादयस्तु शास्त्र
॥४०॥
M Jain Educaton intematona
For Private & Personel Use Only
www.jainelibrary.org