________________
भणइ,करेइ अण्णं च न भणइ करेह। अन्नकयं नपसंसइ, न कुणइ सयमेव कारणं ।। करसन्नभमुहखेवाइएहिं नय कारवेइ अन्नेणं।अन्नकयं न पसंसइ,अण्णेण कयं च सुट्ट कयं ।२॥" [ननु त्रिविधं त्रिविधेन प्रत्याख्यातमिध्यात्वस्य मिथ्यादृष्टिसंसर्गे कथं नानुमतिरूपमिथ्यात्वप्रसङ्ग इतिचेन्न, तस्याप्यतिचाररूपस्य वर्जनीयत्वस्यैवोक्तत्वात् । खकुटम्बादिसम्बन्धिनो मिथ्यादृशो वर्जनाशक्तौ संवासानुमतिः स्यादिति चेन्न, आरम्भिणा संवासे आरम्भक्रियाया बलात्प्रसवात् संवासानुमतिसंभवेऽपि मिथ्यात्वस्य भावरूपत्वेन तदसम्भवात् । अन्यथा सय्यतस्यापि मिथ्यादृष्टिनिभाया अपि संभवेन तत्संवासानुमतेारत्वादिति दिक ] यद्यपि तत्त्ववृत्त्या अदेवादेर्देवत्वादिबुद्ध्याऽऽराधने एव मिथ्यात्वं, तथाप्यैहिकाद्यर्थमपि यक्षाद्याराधनमुत्सर्गतस्त्याज्यमेव, परम्परया मिथ्यात्ववृद्धिस्थिरीकरणादिप्रसङ्गेन प्रेत्य दुर्लभबोधित्वापत्तेर्यतः-"अन्नेसिं सत्ताणं, मिच्छत्तं जो जणेइ मूढप्पा। सो तेण निमित्तेणं, न लहइ बोहिं जिणाभिहिअं॥१॥” रावणकृष्णाद्यालम्बनमपि नोचितमेव कालभेदात्,यतस्तत्समयेऽहद्धर्मस्येतरधर्मेभ्योऽतिशायित्वेन न मिथ्यात्ववृद्धिस्तादृशी,सम्प्रति च खभावतोऽपि मिथ्यात्वप्रवृत्तिनिवारैवेति । अथ मिथ्यात्वं पञ्चविधं, यदाह-"आभिग्गहिअमणभिग्गहं च तह अभिनिवेसिअंचेव । संसइअमणाभोगं, मिच्छत्तं पंचहा एअं॥१॥” तत्राभिग्रहिकं पाखण्डिनां खशास्त्रनियन्त्रितविवेकालोकानां परपक्षप्रतिक्षेपदक्षाणां, जैनानां च धर्माधर्मवादेन परीक्षापूर्व तत्त्वमाकलय्य वाभ्युपगतार्थ श्रद्धमानानां परपक्षप्रतिक्षेपणदक्षत्वेऽपि नाभिग्रहिकत्वं, स्वशास्त्रानियन्त्रितत्वाद्विवेकालोकस्य । यस्तु नाम्ना
JainEducational
For Private
Personel Use Only
Koljainelibrary.org