________________
संग्रह.
॥ ३९॥
च परिचितं नाप्यनुमितं, न चार्थादापन्नं कचिदुपमितं नापि विबुधैः। विशुद्धं सम्यक्त्वं न च हृदि न नालिगितमपि,स्फुरत्यन्तज्योतिर्निरुपधिसमाधौ समुदितम् ॥२॥” इत्यलं प्रसङ्गेन, प्रकृतमनुसरामः। निसर्गाधिगमयोरुभयोरप्येकमन्तरङ्ग कारणमाह-'मिथ्यात्वपरिहाण्यैव' मिथ्यात्वं जिनप्रणीततत्त्वविपरीतश्रद्धानलक्षणं, तस्य परिहाण्यैव सर्वथा त्यागे त्रिविधंत्रिविधेन प्रत्याख्यानेनेतियावत् । आह च-मिच्छत्तपडिक्कमणं, तिविहंतिविहेण नायव्वं'ति । मिथ्यात्वं च लौकिकलोकोत्तरभेदाविधा, एकैकमपि देवविषयगुरुविषयभेदाविविधं, तत्र लौकिकदेवगतं लौकिकदेवानां हरिहरब्रह्मादीनां, प्रणामपूजादीनां (दिना) तद्भवनगमनादिना च तत्तद्देशप्रसिद्धमनेकविधं ज्ञेयम् १। लौकिकगुरुगतमपि लौकिकगुरूणां ब्राह्मणतापसादीनां नमस्कृतिकरणं तद्ग्रे पतनं, तद्ग्रे नमः शिवायेत्यादिभणनं, तत्कथाश्रवणं, तदुक्तक्रियाकरणतः कथाश्रवणबहुमानकरणादिना च विविधं २। लोकोत्तरदेवगतं तु परतीर्थिकसङ्गहीतजिनबिम्बार्चनादिना इहलोकार्थ जैनयात्रागमनमाननादिना च स्यात् ३ । लोकोत्तरगुरुगतं च पार्श्वस्थादिषु गुरुत्वबुद्ध्या वन्दनादिना गुरुस्तूपादावैहिकफलार्थ यात्रोपयाचितादिना चेति भेदचतुष्टयी, तदुक्तं दर्शनशुद्धिप्रकरणे-“दुविहं लोइअमिच्छं, देवगयं गुरुगयं मुणेअव्वं । लोउत्तरिअंपि दुविहं, देवगयं गुरुगयं चेव ।। चउभे मिच्छत्तं, तिविहं तिविहेण जो विवजेइ। अकलंकं सम्मत्तं, होइ फुडं तस्स जीवस्सा" त्रिविधं त्रिविधेनेत्यत्र भावनामेवमाहुःएअं अणंतरुत्तं, मिच्छं मणसा न चिंतइ करेमि । सयमेव सो करेउ, अन्नेण कए व सुट्ट कयं।। एवं वाया न
म् । लामा हरिहरब्रह्मादीतभेदाद्विधा, ए आह च
FACARREARSANSALAX
Jain Educaton International
For Private & Personel Use Only
www.jainelibrary.org