________________
वहिव्यञ्जकधूमालोकवदननुगमेऽपिन दोषः । अत एव च'नाणं च दसणं चेव'इत्यादिना ज्ञानदर्शनचारित्रतपःप्रभृतीनामननुगतानामेव जीवखरूपव्यञ्जकत्वरूपजीवलक्षणत्वं, उक्तलिङ्ग विनापि लैङ्गिकसद्भावेऽप्यविरोधश्च । यदाहुरध्यात्ममतपरीक्षायामुपाध्यायश्रीयशोविजयगणयः-जंच जिअलक्खणंत, उवइडतत्थ लक्खणं लिङ्ग। तेण विणा सोजुज्जइ,धूमेण विणा हुआसुव्व॥१॥"त्ति। एवं च रुच्यभावेऽपि वीतरागसम्यक्त्वसद्भावान्न क्षतिः । व्यङ्गयं त्वेकमनाविलसकलज्ञानादिगुणैकरसस्वभावं शुद्धात्मपरिणामरूपं परमार्थतोऽनाख्येयमनुभवगम्यमेव सम्यक्त्वम् । तदुक्तं धर्मबीजमधिकृत्योपदेशपदे-पायमणक्खेअमिणं, अणुहवगम्मं तु सुद्धभावाणं। भवखयकरंति गरुअं, बुहेहि सयमेव विण्णेयं॥१॥"ति ।खयमिति निजोपयोगतः, इक्षुक्षीरादिरसमाधुर्यविशेषाणामिवानुभवेऽप्यनाख्येयत्वात् । उक्तंच-इक्षुक्षीरगुडादीनां, माधुर्यस्यान्तरं महत् । तथापि न तदाख्यातुं, सरखत्याऽपि पार्यते॥१॥” इति।यदि चधर्मबीजस्याप्येवमनुभवैकगम्यत्वं, का वार्ता तर्हि भवशतसहस्रदुर्लभस्य साक्षान्मोक्षफलस्य चारित्रैकप्राणस्य सम्यक्त्वस्य? इति, शुद्धात्मपरिणतिखरूपे हि तत्र नातिरिक्तप्रमाणानां प्रवृत्तिः। उक्तंच शुद्धात्मखरूपमधिकृत्याचारसूत्रे-"सब्वे सरा णिअति, तक्का जत्थ ण विजइ, मइ तत्थ |ण गाहिआ" इत्यादि, तदेतद् ज्ञानादिगुणसमुदायाद्भेदाभेदादिना विवेचयितुमशक्यमनुभवगम्यमेवेति |स्थितम् । अत्र पद्य-"न भिन्नं नाभिन्नं ह्युभयमपि नो नाप्यनुभयं,न वा शाब्दन्यायाद्भवति भजनाभाजनमपि। गुणासीनं लीनं निरवधिविधिव्यञ्जनपदे, यदेतत्सम्यक्त्वं तदनुकुरुते पानकरसम् ॥१॥न केनाप्याख्यातं न
Jain Education
For Private & Personel Use Only
jainelibrary.org