________________
धर्म
तपोविनयाद्यनुष्ठानविषयिणी रुचिः क्रियारुचिः, नचाज्ञारुचिरपि धर्मानुष्ठानविषया इयमपि तथेति कोऽ-
नयोर्भेदः इति शङ्कनीयं, साह्याज्ञास्मरणनियता, इयं त्वसङ्गेत्येवंभेदाद, अत एव सर्वसात्म्येन परिणतचारित्र॥ ३८॥ क्रियाश्चारित्रकाया महर्षयो भणिता, 'इत्तो उ चरित्तकाओ'त्ति वचनेन हरिभद्राचार्यैः ८। अनभिगृहीत-131
कुदृष्टः प्रवचनाविशारदस्य निर्वाणपदमात्रविषयिणी रुचिः संक्षेपरुचिर्यथोपशमादिपत्रयविषयिणी चिलातिपुत्रस्य, न च विशेष्यभागरहितं विशेषणद्वयमात्रमेतल्लक्षणंयुक्तं, मूर्छादिदशासाधारण्यात् ।धर्मपदमात्रश्रवणजनितप्रीतिसहताध(ऽऽहिताधर्मपद्वाच्यविषयिणी रुचिर्द्धर्मरुचिः। आह च-जोअस्थिकायधम्म, सुयधम्म खलु चरित्तधम्मं च । सद्दहइ जिणाभिहिअं, सो धम्मरुइत्ति णायव्यो॥१॥"ति [ नचैवं ग्रामधर्मादिपदवाच्यविषयिण्यपि रुचिस्तथा स्यादिति वाच्यं, निरुपपद्धर्मपद्वाच्यत्वस्यैव ग्रहणात् । नचैवं चारित्रधर्मादिपद्वाच्यविषयिण्यामव्याप्तिनिरुपपदत्वस्य वास्तवधर्मातिप्रसञ्जकोपपदाहित्यस्य विवक्षणादिति दिक]
१० । शिष्यव्युत्पादनार्थ चेत्थमुपाधिभेदेन सम्यक्त्वभेदनिर्देशः, तेन कचित्केषाञ्चिदन्तर्भावेऽपि न क्षतिसारित्युत्तराध्ययनवृत्तौ । यथाच नान्तर्भावस्तथोक्तमस्माभिः, तथापि नैतदन्यतरत्वं सम्यक्त्वलक्षणं, रुचीनां
तत्तद्विषयभेदेन परिगणनस्याशक्यत्वात्, रुचे प्रीतिरूपत्वेन वीतरागसम्यक्त्वेऽव्याप्तेश्च । 'दसविहे सरागसम्मत्तदंसणे पण्णत्ते' इति स्थानाङ्गसूत्रस्य खारस्येन सरागसम्यक्त्वस्यैव लक्ष्यत्वेन च रागस्थाननुगतत्वेन लक्ष्यभेदाल्लक्षणभेदोऽवश्यमनुसरणीय इति । वस्तुतो लक्षणमिह लिङ्गं व्यञ्जकमितियावत् । व्यञकस्य च
CRORSCORECACANCE%949
॥३८॥
For Private 3 Personal Use Only
jainelibrary.org
in Education