SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ ध्ययनाभ्यासजनितविशिष्टज्ञानेन जीवाजीवादिपदार्थविषयिणी रुचिः सूत्ररुचिोविन्दाचार्यस्येव, जायते च पुनः पुनः स्मरणादृढतरः संस्कार इव पुनः पुनरध्ययनादृढतरं ज्ञानं निःसंशयमिति न किमप्यनुपपन्नम् ४ । एकेन पदेनानेकपदतदर्थप्रतिसंधानद्वारोदके तैलबिन्दुवत् प्रसरणशीला रुचि/जरुचिः, प्रसार उत्तरोत्तरोत्पत्ति: ५। अर्थतः सकलसूत्रविषयिणी रुचिरभिगमरुचिराह च-"सो होइ अभिगमरुई, सुअनाणं जस्स अत्थओ दिडं। इकारस अंगाई, पइन्नगं दिहिवाओ अ॥१॥"त्ति। प्रकीर्णकमिति जातावेकवचनं, ततः प्रकीर्णकानि उत्तराध्ययनादीनीत्यर्थः, दृष्टिवादश्चेति चकारादुपाङ्गादिपरिग्रहः। नन्वेवमियं सूत्ररुचेन भिद्येत, नचेयमविच्छिन्नसूत्रविषया, सा च केवलं सूत्रविषयेत्येवं भेदः, केवलसूत्रस्य मूकत्वात् , तद्विषयरुचेरप्रमाणत्वात्, आह च-मूअगं केवलं सुत्तंति । न केवलं केवलसूत्ररुचेरप्रमाणत्वं, किंत्वज्ञानानुबन्धित्वमपि । तदुक्तमुपदेशमालायां-अपरिच्छिअसुअणिहसस्स केवलमभिन्नसुत्तचारिस्स।सव्वुजमेण वि कयं, अन्नाणतवे वहुं पडइ |॥१॥"त्ति ।अभिन्नंति अविवृतं, इतिचेत्, सत्यं, सूत्ररुचावर्थस्यार्थरुचौ च सूत्रस्य प्रवेशेऽपि सूत्रार्थाध्ययनजनितज्ञानविशेषकृतरुचिभेदानेदः । अत एव सूत्राध्ययनादाध्ययनेऽधिको यत्न उपदिष्ट उपदेशपदे । तथाहिसुत्ता अत्थे जत्तो, अहिगयरोणवरि होइ कायव्वो। इत्तो उभयविसुद्धित्ति, मूअगं केवलं सुत्तं॥१॥"ति।अथवा सूत्रनिर्युक्त्यादिग्रन्थविषयरुचिभेदानेदः।अंत एवाज्ञारुचिः सूत्ररुचर्भिन्ना नियुक्त्यादिविषयत्वेन स्थानाङ्गवृत्ती प्रतिपादितेति ६। सर्वप्रमाणसर्वनयजन्यसर्वद्रव्यसर्वभावविषयिणी रुचिर्विस्ताररुचिः, दर्शनज्ञानचारित्र अभिन्न असुअणिहसस्स केवलमारुचरप्रमाणत्वं, कित्वज्ञाना, ताल Jain Education For Private Personel Use Only Gh ainelibrary.org
SR No.600095
Book TitleDharmsangraha
Original Sutra AuthorManvijayji, Yashovijay Upadhyay
AuthorAnandsagarsuri, Sagaranandsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1915
Total Pages522
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy