________________
धर्म
संग्रह
GROCEROSALMAGAR
नुसारेणोपर्यते-निसर्गरुचिः १ उपदेशरुचिः२ आज्ञारुचिः ३ सूत्ररुचिः ४ बीजरुचिः ५ अभिगमरुचिः६ विस्ताररुचिः ७ क्रियारुचिः ८ संक्षेपरुचिः ९धर्मरुचिः १० इति । तत्र भूतार्थेन सहसंमत्या जीवाजीवादिनवपदार्थविषयिणी रुचिनिसर्गरुचिः, भृतार्थेनेत्यस्य भूतार्थत्वेनेत्यर्थो, भावप्रधाननिर्देशात्, सद्भूतार्था अमी इत्येवंरूपेणेतियावत्, वस्तुतो भूतार्थेनेत्यस्य शुद्धनयेनेत्यर्थः । ववहारोऽभूअत्थो, भूअत्थो देसिओ अ सुद्धणउत्तिवचनात, तेन व्यवहारमात्ररुचेर्विच्छेदः। सहसंमत्येत्यस्य सहात्मना संगता मतिः (सह)संमतिस्तयोपदेशनिरपेक्षक्षयोपशमेणेत्यर्थः१ । परोपदेशप्रयुक्तं जीवाजीवादिपदार्थविषयि श्रद्धानम् उपदेशरुचिः, परस्तीर्थकरस्तद्वचनानुसारी छद्मस्थो वा, केवलज्ञानमूलकत्वप्रयुक्तोपदेशरुचिस्तजन्यबोधरुचिर्वेति निष्कर्षः। तदुक्तं सूत्रकृते-"लोगं अयाणित्तिह केवलेणं, कहंतिजे धम्ममयाणमाणा।णासंति अप्पाण परं च णट्ठा,संसारघोरंमि अणोरपारे ॥१॥ लोगं वियाणित्तिह केवलेणं, पुन्नेण नाणेण समाहिजुत्ता। धम्म समत्तं च कहंति जे उ, तारंति अप्पाण परं च तिण्णा॥२॥” इति। उपदेशे तजन्यबोधे च रुचिरिह संशयव्यावर्तकतावच्छेदको धर्मविशेषः।रागद्वेषरहितस्य पुंस आज्ञयैव धर्मानुष्ठानगता रुचिराज्ञारुचिः, राहित्यं च देशतःसर्वतश्च, तत्र देशतो दोषरहितानामाचार्याद्रीनामाज्ञया धर्मानुष्ठाने रुचिर्माषतुषादीनां सम्यक्त्वसंपादिका (तत्तदनुष्ठाने) तदुक्तं पञ्चाशके-"गुरुपारतंतनाणं, सद्दहणं एयसंगयं चेव । एत्तो उ चरित्तीणं, मासतुसाईण णिद्दिढं ॥२॥"ति । सर्वदोषरहिताज्ञामूलत्वं च तत्राप्यप्रामाण्यशङ्कानिवर्तकत्वेन सर्वत्र रुचिप्रयोजकमितिविशेषः३। सूत्रा
Jain Education International
For Private & Personel Use Only
D
ainelibrary.org