________________
धर्म-
संग्रह
॥३६॥
क्त्वस्याधिकृत(त्व)स्यैव तव्यतायां प्रमाणत्वात्, द्रव्यभावयोरन्योन्यानुविद्धत्वनये तु तत्र कथञ्चिद्भावत्वमप्युच्यमानं न विरोधायेत्युक्तमन्यत्र । एवं द्रव्यभावाभ्यां दैविध्यं नयविशेषेण विचित्रं भावनीयम् । अथवा निश्चयव्यवहाराभ्यां द्विविधं, तल्लक्षणमिदम् “निच्छयओ सम्मत्तं, नाणाइमयप्पसुद्धपरिणामो। इअरं पुण तुह समए, भणिअं सम्मत्तहेऊहिं ॥१॥"ति । ज्ञानादिमयशुभपरिणामो निश्चयसम्यक्त्वं, ज्ञानश्रद्धानचरणैः सप्तषष्टिभेदशीलनं च व्यवहारसम्यक्त्वमित्येतदर्थः । ननु ज्ञानादिमय इत्यस्य ज्ञानदर्शनचारित्रसंलुलित इत्यर्थः, तथाचैतद्भावचारित्रमेव प्राप्त, कथं नैश्चयिकं सम्यक्त्वमिति? चेत्, सत्यं, भावचारित्रस्यैव निश्चयसम्यक्त्वरूपत्वात्, मिथ्याऽऽचारनिवृत्तिरूपकार्यस्य तत एव भावात्, कार्यानुपहितस्य कारणस्य निश्च| यनयेनानभ्युपगमात् । नन्वेवं तुर्यगुणस्थानादिवर्तिनां श्रेणिकादीनामपि तन्न स्यादितिचेत्, न स्यादेव, कः किमाह-अप्रमत्तसंयतानामेव तयवस्थितेस्तदुक्तमाचाराङ्गे-जं सम्मति पासह, तं मोणं ति पासह, जं मोणं ति पासह, तंसम्मति पासह शण इमं सकं सिढिलेहिं अद्दिजमाणेहिं गुणासाएहिं वंकसमायारेहिं पमत्तेहिं
गारमावसंतेहिं। मुणी मोणं समादाय, धुणे कम्म सरीरगं । पंतलूहं च सेवंति, धीरा सम्मत्तदंसिणो । त्ति एनन्वेवमपि कारकनिश्चयसम्यक्त्वयोर्भेदोन स्यात्, क्रियोपहितस्यैव कारकत्वात्, क्रियायाश्च चारित्ररूपत्वा
त्, ज्ञानादिमयपरिणामस्यापि तथात्वादिति चेन्न, उपधेयसङ्करेऽप्युपाध्योरसाङ्कर्येणादोषात्, कारके क्रियोपहितत्वमुपाधिनैश्चयिके च ज्ञानादिमयत्वमिति । एवंविधं नैश्चयिकसम्यक्त्वमधिकृत्यैव प्रशमादीनां लक्षणत्वं
Jain Education International
For Private & Personel Use Only
Colhjainelibrary.org