________________
Jain Education Int
भावसम्यक्त्वं, परीक्षाजन्यमतिज्ञानतृतीयांशस्वरूपस्यैव तस्य शास्त्रे व्यवस्थापितत्वात् तदाहुः श्रीसि
सेनदिवाकरपादाः संमती - "एवं जिणपण्णत्ते, सद्दहमाणस्स भावओ भावे । पुरिसस्साभिणिबोहे, दंसणसो हव बच्चो ॥१॥ ति । श्रीहरिभद्रसूरिभिः- “जिणवयणमेव तत्तं, इत्थ रुई होई दव्वसम्मत्तं । जहभावणाणसद्धापरिसुद्धं भावसंमत्तं ॥ १ ॥ "ति पञ्चवस्तुके प्रतिपादितस्याप्ययमेवार्थ: । जिनवचनमेव तत्त्वं नान्यदिति सामान्यरुचेद्रव्यसम्यक्त्वरूपताया, नयनिक्षेपप्रमाणपरिष्कृतविस्ताररुचेश्च भावसम्यक्त्वरूपतायास्तत्र परिस्फुटत्वात् । तत्र द्रव्यशब्दार्थः कारणता, भावशब्दार्थश्च कार्यापत्तिरिति भावनीयम् । येषां त्वेकान्तेन सामान्य रुचिरोघतोऽप्यनेकान्तास्पर्शश्च तेषां द्रव्यसम्यक्त्वमित्यत्र द्रव्यपदार्थोऽप्राधान्यमेव । जैनमपि समयमवलम्ब्यैकान्ते प्रविशतां मिथ्यात्वस्यावर्जनीयत्वात् तदाहुः श्रीसिद्धसेनदिवाकरपादाः –— “छप्पिअ जीवणिकाए, सद्दहमाणो ण सद्दहे भावा । हंदि अपज्जवेसुं, सद्दहणा होइ अविभत्त ॥ १ ॥ "त्ति । यस्य त्वनेकान्ततत्त्वे भगवत्प्ररूपिते सम्यगपरिच्छिद्यमानेऽपि भगवत्प्ररूपितत्वेन तत्र रुचिर्विपरीताभिनिवेशश्च न भवति गीतार्थप्रज्ञापनीयत्वादिगुणयोगात्, तस्यानाभोगगुरुपारतन्त्र्याभ्यामन्यथा सम्भावनेऽपि अन्तस्तत्त्वस्य शुद्धत्वाद्रव्यसम्यक्त्वमविरुद्धं, तथाच भाद्रबाहवं वच उत्तराध्ययननिर्युक्तौ — सम्मद्दिट्ठी जीवो, उवइटुं पवयणं तु सहहह । सद्दहइ असम्भावं, अणभोगा गुरुनिओगा वा ॥ १ ॥” इति । नन्वत्रद्रव्यभावयोरेकतरस्यानिर्द्धारणाद्द्रव्यमेवेति कुतः ? सामान्यवचनस्य विशेष परतायां प्रमाणस्य मृग्यत्वादिति चेत्, सत्यं, विस्ताररुचे जवसम्य
For Private & Personal Use Only
jainelibrary.org