________________
धर्म-
संग्रह.
एक जीवं नानाजीवान्वाऽपेक्ष्य सम्यक्त्वोपयोगो जघन्यत उत्कृष्टतश्चान्तर्मुहूर्तमेव, क्षयोपशमरूपा तल्ल- ब्धिस्त्वेकजीवस्य जघन्याऽन्तर्मुहर्त्तमुत्कृष्टा तु ६६ सागराणि नृभवाधिकानि, तत ऊर्दू सम्यक्त्वापच्युतः सिद्ध्यत्येव, नानाजीवानां तु सर्वकालः। अन्तरं च जघन्यतोऽन्तर्मुहूर्त, कस्यचित्सम्यक्त्वत्यागे सति पुनस्तदावरणक्षयोपशमादन्तर्मुहर्त्तमात्रेणैव तत्प्रतिपत्तेः, उत्कृष्टतस्त्वाशातनाप्रचुरस्यापापुद्गलपरावर्त उक्तंच --"तित्थयरं पवयणसुअं, आयरिअं गणहरं महड्डीयं आसायंतो बहुसो, अणंतसंसारिओहोइ॥१॥" नानाजीवानपेक्ष्य चान्तराऽभाव इत्याद्युक्तमावश्यकवृत्ताविति शेषविचारो विशेषार्थिभिस्तत एवावधार्य इत्यलं विस्तरेण । शास्त्रान्तरे चैकविधादिक्रमेण सम्यक्त्वभेदाः प्रदर्शितास्तथाहि-“एगविह दुविह तिविहं, चउहा पंचविह दसविहं सम्मं । व्वाइ कारयाई, उवसमभेएहिं वा सम्मं ॥१॥ एगविहं सम्मरुई, निसग्गहिगमेहि भवे तयं दुविहं । तिविहं तं खइआई, अहवाविहु कारगाईअं ॥२॥खइगाइ सासणजुअं, चउहा वेअगजुरंतु पंचविहं । तं मिच्छचरमपुग्गलवेअणओ दसविहं एयं ॥३॥ निसग्गुवएसई, आणगड़ सुत्तबीअरुइमेव । अभिगमवित्थाररुई, किरिआसंखेवधम्मरई ॥४॥ आसां भावार्थ:-तथाश्रद्धानरूपत्वाविशेषादेकविधं सम्यक्त्वं । निसर्गाधिगमभेदाद्विविधं, निसर्गाधिगमखरूपं तु प्रागुक्तं, आभ्यामुत्पत्तिप्रकाराभ्यां सम्यक्त्वं द्विधा भिद्यत इत्यर्थः । अथवा द्रव्यभावभेदाद्विविधं, तत्र जिनोक्ततत्त्वेषु सामान्येन रुचिर्द्रव्यसम्यक्त्वं, नयनिक्षेपप्रमाणादिभिरधिगमोपायो जीवाजीवादिसकलतत्त्वपरिशोधनरूपज्ञानात्मकं
En Edan lemon
For Private
Personel Use Only