SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ परिणामः सम्यक्त्वे मिश्रे च संक्रमयति । मिश्रपुद्गलांश्च सम्यग्दृष्टिः सम्यक्त्वे, मिथ्यादृष्टिश्च मिथ्यात्वे । सम्यक्त्वपुद्गलांस्तु मिथ्यात्वे संक्रमयति; न तु मिश्रे। “मिच्छत्तंमि अखीणे, तिपुंजिणो सम्मद्दिहिणोणियमा। वीणमि उ मिच्छत्ते, दुएगपुंजी व खवगोवा ॥१॥ मिथ्यात्वेऽक्षीणे सम्यग्दृष्टयो नियमात्रिपुञ्जिनः, मिथ्यात्वे क्षीणे द्विपुञ्जिनः, मिश्रेक्षीणे एकपुञ्जिनः, सम्यक्त्वे तु क्षीणे क्षपकः। सम्यक्त्वपुद्गलाश्च शोधितमदनकोद्रवस्थानीया विरुद्धतैलादिद्रव्यकल्पेन कुतीर्थिकसंसर्गकुशास्त्रश्रवणादिमिथ्यात्वेन मिश्रिताः सन्तस्तत्क्षणादेव मिथ्यात्वं स्युः । यदाऽपि प्रपतितसम्यक्त्वः पुनः सम्यक्त्वं लभते, तदाऽप्यपूर्वकरणेन पुञ्जनयं कृत्वा अनिवृत्तिकरणेन सम्यक्त्वपुञ एव गमनाद्रष्टव्यं । पूर्वलब्धस्याप्यपूर्वकरणस्यापूर्वता, पूर्व स्तोकशः कृतत्वेनापूर्वमिवेति वृद्धाः । सैद्धान्तिकमतं चैतत्-सम्यक्त्वप्राप्ताविव देशविरतिसर्वविरत्योः प्राप्तावपि यथाप्रवृत्त्यपूर्वकरणे भवतो नत्वनिवृत्तिकरणं, अपूर्वकरणाद्धामा(समा)सावनन्तरसमये एव तयोर्भावात्, देशसर्वविरत्योः प्रति. पत्त्योरनन्तरमन्तर्मुहूर्त यावदवश्यं जीवः प्रवर्द्धमानपरिणामस्तत ऊर्ध्वं त्वनियमः । ये चाऽऽभोगं विनैव कथंचित्परिणामहासाद्देशविरतेः सर्वविरतेर्वा प्रतिपतितास्तेऽकृतकरणा एव पुनस्तां लभन्ते । ये त्वाभोगतः प्रतिपतिता आभोगेनैव च मिथ्यात्वं गतास्ते जघन्यतोऽन्तर्मुहूर्तेनोत्कर्षतः प्रभूतकालेन यथोक्तकरणपूकमेव पुनस्तां लभन्त इत्युक्तं कर्मप्रकृतिवृत्तौ । सैद्धान्तिकमते हि विराधितसम्यक्त्वो गृहीतेनापि सम्यक्त्वेन षष्ठपृथिवीं यावत् कोऽप्युत्पद्यते, कार्मग्रन्थिकमते तु वैमानिकेभ्योऽन्यत्र नोत्पद्यते, तेन गृहीते Jan Education For Private Personel Use Only jainelibrary.org
SR No.600095
Book TitleDharmsangraha
Original Sutra AuthorManvijayji, Yashovijay Upadhyay
AuthorAnandsagarsuri, Sagaranandsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1915
Total Pages522
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy