________________
Jain Education In
%
मिथ्यात्वं विरलं कुर्युर्वेदनीयं यदग्रतः ॥ ९ ॥ आन्तर्मुहूर्तिकं सम्यग्दर्शनं प्राप्नुवन्ति यत् । निसर्गहेतुकमिदं, सम्यक् श्रद्धानमुच्यते ॥१०॥ गुरूपदेशमालम्ब्य, सर्वेषामपि देहिनाम् । यत्तु सम्यगश्रद्धानं तत्, स्यादधिगमजं परम् ॥ ११ ॥ यमप्रशमजीवातुर्बीजं ज्ञानचरित्रयोः । हेतुस्तपः श्रुतादीनां सद्दर्शनमुदीरितम् ॥ १२ ॥ श्लाघ्यं | हि चरणज्ञानविमुक्तमपि दर्शनम्। न पुनर्ज्ञानचारित्रे, मिथ्यात्वविषदूषिते ॥ १३॥ ज्ञानचारित्रहीनो ऽपि श्रूयते | श्रेणिकः किल । सम्यग्दर्शनमाहात्म्यात्, तीर्थकृत्त्वं प्रपत्स्यते || १४||" इति । अत्राह - मिथ्यात्वमोहनीयकर्मक्षयोपशमादेरिदं भवति, कथमुच्यते निसर्गाद्धिगमाद्वा तज्जायत इति । अत्रोच्यते स एव क्षयोपशमादिर्निस|र्गाधिगमजन्मेति न दोषः । उक्तंच - "ऊसरदेसं दहिल्लयं च विज्झाइ वणदवो पप्प । इय मिच्छस्साणुदए, उवसमसम्मं लहइ जीवो ॥ १ ॥ जीवादीणमधिगमो, मिच्छत्तस्स उखओवसमभावे । अधिगमसंमं जीवो, पावेइ विसुद्ध - परिणामो ॥२॥ ति । कृतं प्रसङ्गेन । तच्च कतिविधं भवतीत्याह-'पञ्चधेति' पञ्चप्रकारं स्यात् तद्यथा - औपशमिकं १ | क्षायिकं २ क्षायोपशमिकं ३ वेदकं ४ साखादनं५ चेति । तत्रौपशमिकं भस्मच्छन्नाग्निवत् मिथ्यात्वमोहनीयस्या नन्तानुबन्धिनां च क्रोधमानमायालो भानामनुदयावस्था (स) उपशमः प्रयोजनं प्रवर्त्तकमस्य औपशमिकं, तच्चानादिमिथ्यादृष्टेः करणत्रयपूर्वकमान्तर्मुहतिकं, चतुर्गतिकस्यापि संज्ञिपर्याप्तपञ्चेन्द्रियस्य जन्तोर्ग्रन्थिभेदा(द) नन्तरं भवतीत्युक्तप्रायं, यद्वा उपशमश्रेण्यारूढस्य भवति यदाह - " उवसम सेढिगयस्स उ, होइ उवसामिअं तु सम्मत्तं । जो वा अकयतिपुंजो, अखविअमिच्छो लहइ सम्मं ॥ १ ॥” ति ॥ ग्रन्थिप्रदेशं यावन्तु अभव्योऽपि समयेय
For Private & Personal Use Only
jainelibrary.org