________________
धर्म
॥ ३२ ॥
Jain Education
परिअहो चेव संसारो ॥ १॥ सम्मद्दिट्ठी जीवो, गच्छद्द नियमा विमाणवासीसु । जइ न विगयसम्मत्तो, अहव न बद्धाउओ पुव्विं ॥ २ ॥ जं सक्कइ तं कीरह, जं च न सकइ तयंमि सद्दहणा । सद्दहमाणो जीवो, वच्चइ अय| रामरं ठाणं ॥ ३ ॥ ति । अथ तस्य चोत्पादे द्वयी गतिर्निसर्गोऽधिगमश्चेति तां तद्भेदांश्चाह
निसर्गाद्वाऽधिगमतो, जायते तच्च पञ्चधा । मिथ्यात्वपरिहाण्यैव, पञ्चलक्षणलक्षितम् ॥ २२ ॥
संग्रह.
निसर्गादधिगमाद्वा तत्सम्यक्त्वं 'जायते' उत्पद्यते, तत्र निसर्गः खभावो गुरूपदेशादिनिरपेक्ष इतिभावः, अधिगमो गुरूपदेशः यथावस्थितपदार्थपरिच्छेद इतियावत्, तथाहि योगशास्त्रवृत्तौ - "अनाद्यनन्तसंसाराऽऽवर्त्तवर्त्तिषु देहिषु । ज्ञानदृष्ट्यावृतिवेदनीयान्तरायकर्मणाम् ॥१॥ सागरोपमकोटीनां, कोट्यस्त्रिंशत्परा स्थितिः । विंशतिर्गोत्रनाम्नोश्च, मोहनीयस्य सप्ततिः ॥ २ ॥ ततो गिरिसरिद्रावघोलनान्यायतः खयम् । एकाब्धिकोटिकोटचूना, प्रत्येकं क्षीयते स्थितिः ॥ ३ ॥ शेषान्धिकोटिकोट्यन्तः स्थितौ सकलजन्मिनः । यथाप्रवृत्तिकरणाद्भन्धिदेशं समिप्रति ॥ ४ ॥ रागद्वेषपरीणामो, दुर्भेदो ग्रन्थिरुच्यते । दुरुच्छेदो दृढतरः, काष्ठादेरिव सर्वदा ॥ ५ ॥ ग्रन्थिदेशं तु संप्राप्ता, रागादिप्रेरिताः पुनः । उत्कृष्टबन्धयोग्याः स्युश्चतुर्गतिजुषोऽपि च ॥ ६ ॥ तेषां मध्ये तु ये भव्या, भाविभद्राः शरीरिणः । आविष्कृत्य परं वीर्यमपूर्वकरणे कृते ॥ ७ ॥ अतिक्रामन्ति सहसा, तं ग्रन्थि ॥ ३२ ॥ | दुरतिक्रमम् । अतिक्रान्तमहाऽध्वानो, घट्टभूमिमिवाध्वगाः ॥ ८ ॥ युग्मम् । अथानिवृत्तिकरणादन्तरकरणे कृते ।
For Private & Personal Use Only
vjainelibrary.org