________________
Mरिणामविशेषः आह च-"से असंमत्ते पसत्थसंमत्तमोहणीअकम्माणुवेअणोवसमखयसमुत्थे पसमसंवेगाइलिङ्गे सुहे आयपरिणामे पण्णत्ते"।इदं च लक्षणममनस्केषु सिद्धादिष्वपि व्यापकम् । इत्थं च सम्यक्त्वे सत्येव | यथोक्तं श्रद्धानं भवति, यथोक्तश्रद्धाने च सति सम्यक्त्वं भवत्येवेति श्रद्धानवतां सम्यक्त्वस्यावश्यम्भावित्वोपदर्शनाय कार्ये कारणोपचारं कृत्वा तत्त्वेषु रुचिरित्यस्य तत्त्वार्थश्रद्वानमित्यर्थपर्यवसानं न दोषाय । तथा चोक्तम्-जीवाइ नव पयत्थे,जो जाणइ तस्स होइ संमत्तं भावेण सद्दहंते,अयाणमाणेवि सम्मत्तं ॥१॥ति। नन्वेवमपि शास्त्रान्तरे तत्त्वत्रयाध्ययन(ध्यवसायासम्यक्त्वमित्युक्तम् । यतः-"अरिहं देवो गुरुणो,सुसाहुणो |जिणमयं पमाणं च। इचाइ सुहोभावो, सम्मत्तं बिंति जगगुरुणो॥१॥"(इति)कथं न शास्त्रान्तरविरोधः? इति चेन्न, अत्र प्रकरणे जिनोक्ततत्त्वेषु रुचिरिति यतिश्रावकाणांसाधारणं सम्यक्त्वलक्षणमुक्तं, शास्त्रान्तरे तु गृहस्थानां देवगुरुधर्मेषु पूज्यत्वोपास्यत्वानुष्ठेयत्वलक्षणोपयोगवशाद्देवगुरुधर्मतत्त्वप्रतिपत्तिलक्षणं सम्यक्त्वं प्रतिपा|दितं, तत्रापि देवा गुरवश्च जीवतत्त्वे, धर्मः शुभाश्रवे संवरे चान्तर्भवतीति न शास्त्रान्तरविरोधः। सम्यक्त्वं |चाहद्धर्मस्य मूलभूतं यतो दिविधंत्रिविधेनेत्यादिप्रतिपत्त्या श्राहद्वादशव्रती सम्यक्त्वोत्तरगुणरूपभेदव्ययुतामाश्रित्य त्रयोदश कोटिशतानि चतुरशीतिकोव्यः सप्तविंशतिः सहस्राणि वे शते च युत्तरे भङ्गाः स्युः। एषु च (केवलं) सम्यक्त्वं विना च नैकस्यापि भङ्गस्य संभवः, अत एव 'मूलं दारमित्यादि' षड्भावना वक्ष्यमा-1 णायुक्ता एवेति। एतस्य फलं चैवमाहु:-"अंतोमुहुत्तमित्तंपि, फासिअंहुन्ज जेहिंसम्मत्तं। तेसिं अवडूपुग्गल-2
-
JainEducation
For Private
Personel Use Only
w.jainelibrary.org