________________
परहिअत्थकारी अ२०। तह चेव लद्धलक्खो । २१ । इगवीसगुणेहिं संजुत्तो ॥३॥ एतासां व्याख्या-धर्माणां मध्ये यो रत्नमिव वर्त्तते जिनप्रणीतो देशविरतिसर्वविरतिरूपो धर्मः स धर्मरत्नं, तस्य 'योग्यः' उचितो भवतीत्यध्याहारः, 'एकविंशत्या गुणैः संपन्न' इति तृतीयगाथान्ते संबन्धः। तानेव गुणान् गुणगुणिनोः कथञ्चिदभेद इति दर्शनाय गुणिप्रतिपादनद्वारेणाह-अक्खुद्दो इत्यादि । तत्राक्षुद्रोऽनुत्तानमतिः १। रूपवान् प्रशस्तरूपः, स्पष्टपञ्चेन्द्रियरूप इत्यर्थः । प्रकृतिसोमः खभावतोऽपापकर्मा ३। लोकप्रियः सदा सदाचारचारी ४।। अरोऽक्लिष्टचित्तः ५ । भीरुरैहिकामुष्मिकापायभीलुकः ६ । अशठः परावश्चकः ७ । सुदाक्षिण्यः । प्रार्थनाभङ्गभीमः ८। लजालुरकार्यवर्जकः ९ । दयालुः सत्त्वानुकम्पकः १० । मध्यस्थो रागद्वेषरहितोऽत एवासौ सोमदृष्टियथावस्थितविचारवित्त्वात्, इह पवयेनाप्यक एव गुणः। ११ । गुणरागी गुणिपक्षपातकृत् १२ । सती धर्मकथाऽभीष्टा यस्य स सत्कथः १३ । सुपक्षयुक्तः सुशीलानुकूलपरिवारोपेतः १४।। सुदीर्घदर्शी सुपर्यालोचितपरिणामसुन्दरकार्यकारी १५। विशेषज्ञोऽपक्षपातित्वेन गुणदोषविशेषाविशेष|वेदी १६ । वृद्धानुगः परिणतमतिपुरुषसेवकः १७। विनीतो गुणाधिकेषु गौरवकृत् १८। कृतज्ञः परोपकाराविस्मारकः १९ । परहितार्थकारी निरीहः सन् परार्थकृत, सुदाक्षिण्यो हि अभ्यर्थित एव परोपकारं करोत्ययं पुनः खत एव परहितरत इति विशेषः २० । तहचेवत्ति तथाशब्दः प्रकारार्थश्चः समुच्चये, एवोऽवधारणे, ततश्च यथैते विंशतिस्तथैव तेन प्रकारेण, लब्धलक्ष्यश्च धर्माधिकारीति पदयोगः। पदार्थस्तु लब्ध इव
Jain Education inte
For Private & Personal Use Only
Mainelibrary.org