________________
धर्म
संग्रह.
॥२८॥
952 055ARSONG2525
नादिर्गुणः, तस्य निःशेषक्लेशलेशाकलङ्कमोक्षाक्षेपं प्रत्यवन्ध्यकारणत्वादिति निरूपितो धर्मविन्दौ सद्धर्मदेशनाप्रदानविधिः । अथ सद्धर्मग्रहणयोग्यतामाह
संविग्नस्तच्छ्रुतेरेवं, ज्ञाततत्त्वो नरोऽनघः । दृढं खशक्त्या जातेच्छः, संग्रहेऽस्य प्रवर्त्तते ॥२०॥ 'एवं'उक्तनीत्या 'तच्छ्रुतेः तस्या धर्मदेशनायाः श्रुतेःश्रवणाद् 'नरः' श्रोता पुमान 'अनघों' व्यावृत्ततत्त्वप्रतिपत्तिबाधकमिथ्यात्वमालिन्यः सन्नत एव 'ज्ञाततत्त्वः' करकमलतलाकलितनिस्तलास्थूलामलमुक्ताफलवच्छास्त्रलोचनबलेनालोकितसकलजीवादिवस्तुवादः,तथा संविग्नः संवेगमुक्तलक्षणं प्राप्तःसन् 'जातेच्छो लब्धचिकीर्षापरिणामोर्थाद्धर्मे 'दृढं अतिसूक्ष्माभोगपूर्व यथा स्यात्तथा'खशक्त्या' खसामर्थ्येन हेतुभूतेन 'अस्य'धर्मस्य 'सग्रहे' सम्यग्वक्ष्यमाणयोगवन्दनादिशुद्धिरूपविधिपूर्व ग्रहे प्रतिपत्तौ प्रवर्त्तते' प्रवृत्तिमाधत्ते । अदृढमयथाशक्ति च धर्मग्रहणप्रवृत्ती भङ्गसंभवेन प्रत्युतानर्थसंभव इति दृढस्वशत्योहणं कृतमिति विशेषगृहिधर्मग्रहणयोग्यता प्रतिपादिता भवति । शास्त्रान्तरे चैकविंशत्या गुणैर्द्धर्मग्रहणाहॊ भवतीति प्रतिपादितं तद्यथा-धम्मरयणस्स जुग्गो, अक्खुद्दो १। रूववं २। पगइसोमो ३। लोगप्पिओ ४ । अकूरो ५। भीरू ६।असढो ७। सुदक्खिण्णो ८॥१॥ लज्जालुओ९। दयालू १० मज्झत्थो सोमदिट्ठी ११ । गुणरागी १२ । सक्कह १३॥ सुपक्खजुत्तो १४ । सुदीहदंसी १५ । विसेसन्नू १६ ॥२॥ वुड्राणुगो १७ । विणीओ १८ । कयण्णुओ १९
SARRERAKASSAS*
॥२८॥
JainEducation in
For Private
Personel Use Only
www.jainelibrary.org