________________
द्वादश विशुद्धाः॥२॥” ताभ्यो 'रागादिक्षयों रागद्वेषमोहमलप्रलयः संजायते सम्यक्किकित्साया इव वातपित्तादिरोगापगमः, प्रचण्डपवनाद्वा यथा मेघमण्डलविघटनं, रागादिप्रतिपक्षभूतत्वाद्भावनानामिति। ततोऽपि किमित्याह-"तद्भावेऽपवर्ग इति तस्य' रागादिक्षयस्य 'भावे'सकललोकालोकविलोकनशालिनोः केवलज्ञानदर्शनयोलब्धौ सत्यांनिस्तीर्णभवार्णवस्य सतो जन्तोः 'अपवर्ग:' उक्तनिरुक्त उद्भवतीति। किंलक्षण इत्याह-"स आत्यन्तिको दुःखविगम इतीति” सोऽपवर्गः अत्यन्तं सकलदुःखशक्तिनिमूलनेन भवतीति आत्यन्तिको दुःखविगमः' सर्वशारीरमानसाशमविरहः सर्वजीवलोकासाधारणानन्दानुभवश्चेति । इत्थं देशनाविधिं प्रपश्च्योपसंहरन्नाह-"एवं संवेगकृद्धर्म, आख्येयो मुनिना परः। यथाबोधं हि शुश्रूषो वितेन महात्मना” इति । व्याख्यातप्रायम् । आह-धर्माख्यापनेऽपि यदा तथाविधकर्मदोषान्नावबोधः श्रोतुरुत्पद्यते तदा किंफलं धर्माख्यानमित्याह-"अबोधेऽपि फलं प्रोक्तं, श्रोतॄणां मुनिसत्तमैः । कथकस्य विधानेन, नियमाच्छुद्धचेतसः॥१॥" इति सुगमम्।आह-प्रकारान्तरेणापि देशनाफलस्य संभाव्यमानत्वादलमिहैव यत्नेनेत्याशङ्कयाह-"नोपकारो जगत्यस्मिंस्तादृशो विद्यते कचित् ।यादृशी दुःखविच्छेदाद्देहिनां धर्मदेशना ॥१॥ इति 'न' नैवोपकारोऽनुग्रहो 'जगति' भुवने 'अस्मिन्'उपलभ्यमाने तादृशो 'विद्यते' समस्ति 'कचित् काले क्षेत्रेवा यादृशी' यादृगरूपा'दुःखविच्छेदात् शारीरमानसदुःखापनयनात् 'देहिनां देशनार्हाणां धर्मदेशना'इति धर्मदेशनाजनितो मार्गश्रद्धा
Jain Education
For Private & Personel Use Only
jainelibrary.org