________________
धर्म
॥ २७ ॥
상
Jain Education
र्थ्याद्' नात्यन्तं' न प्रागिवातिनिविडतया 'सक्ङ्केशो' रागद्वेष परिणामः प्रवर्त्तते । नहि लब्धवेधपरिणामो मणिः कथञ्चिन्मलापूरितरन्धोऽपि प्रागवस्थां प्रतिपद्यत इति । एतदपि कुत इत्याह - " न भूयस्तद्बन्धनमिति” यतो 'न' 'भूयः' पुनरपि तस्य ग्रन्धेर्बन्धनं निष्पादनं भेदे सति संपद्यत इति । किमुक्तं भवति यावती ग्रन्थिभेदकाले | सर्वकर्मणामायुर्वजनां स्थितिरन्तः सागरोपमकोटी कोटिलक्षणाऽवशिष्यति तावत्प्रमाण (णा) मेवासी सम्यगुपलब्धसम्यग्दर्शनो जीवः कथञ्चित्सम्यक्त्वापगमात्तीव्रायामपि तथाविधसङ्कुशप्राप्तौ बध्नाति न पुनस्तं (स्तां) बन्धेनातिक्रामतीति । तथा "असत्यपाये न दुर्गतिरिति" असत्यविद्यमाने 'अपाये' विनाशे सम्यग्दर्शनस्य परिशु भव्यत्वपरिपाक सामर्थ्यान्मति भेदादिकारणानवासौ 'न' नैव 'दुर्गति'' कुदेवत्व - कुमानुषत्व- तिर्यक्त्व-नारकत्वप्राप्तिः संपद्यते, किंतु सुदेवत्व सुमानुषत्वे एव स्याताम्, अन्यत्र पूर्ववद्वायुष्केभ्य इति । तथा "विशुद्धेश्वारित्रमिति” 'विशुद्धेः' परिशुद्ध निःशङ्कितत्वादिदर्शनाचारवारिपूर प्रक्षालितशङ्कादिपङ्कतया प्रकर्षप्राप्तिलक्षणायाः सम्यग्दर्शन सत्कायाः सकाशात्किमित्याह-'चारित्रं' सर्वसावद्ययोगपरिहारनिरवद्ययोगसमाचाररूपं संपद्यते, शुद्धसम्यक्त्वस्यैव चारित्ररूपत्वात्तथा चाचारसूत्रम्-जं मोणंति पासा, तं संमंति पासहा । जं संमंति पासहा, तं मोति पासहत्ति । "भावनातो रागादिक्षय इति” भाव्यन्ते मुमुक्षुभिरभ्यस्यन्ते निरन्तरमेव ता इति भावनास्ताश्चानित्यत्वाशरणत्वादयो द्वादश यथोक्तम्- "भावयितव्यमनित्यत्वमशरणत्वं तथैकतान्यत्वे । अशुचित्वं संसारः, कर्माश्रवसंवरविधिश्च ॥ १ ॥ निर्जरण लोकविस्तर-धर्मखाख्याततत्त्वचिन्ताश्च । बोधेः सुदुर्लभत्वं च, भावना
For Private & Personal Use Only
संग्रह.
॥ २७ ॥
jainelibrary.org