SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ न्धना बन्धमोक्षसिद्धि इति' एष तत्त्ववाद' प्रतिज्ञायते, अतत्त्ववादिना पुरुषेण वेदितुंन पार्यत इति। एवं तत्त्ववादे निरूपिते किं कार्यमित्याह-"परिणामपरीक्षेति" 'परिणामस्य तत्त्ववादविषयज्ञानश्रद्धानलक्षणस्य परीक्षा एकान्तवादाऽरुचिसूचनवचनसंभाषणादिनोपायेन निर्णयनं विधेयम्।ततोऽपि किं कार्यमित्याह-"शुद्ध बन्धभेदकथनमिति” 'शुद्ध' परमांशुद्धिमागते परिणामे 'बन्धभेदकथनं बन्धभेदस्य मूलप्रकृतिबन्धरूपस्याष्टविधस्य उत्तरप्रकृतिबन्धखभावस्य च सप्तनवतिप्रमाणस्य कथनं प्रज्ञापन कार्य बन्धशतकादिग्रन्थानुसारेणेति । तथा "वरबोधिलाभप्ररूपणेति"वरस्य'तीर्थकरलक्षणफलकारणतयाऽशेषबोधिलाभेभ्योऽतिशायिनो बोधिलाभस्य' 'प्ररूपणा प्रज्ञापना अथवा 'वरस्य द्रव्यलाभव्यतिरेकिणः पारमार्थिकस्य बोधिलाभस्य प्ररूपणा हेतुतःखरूपतः फलतश्चेति । तत्र हेतुतस्तावदाह-"तथाभव्यत्वादितोऽसाविति" भव्यत्वं नाम सिद्धिगमनयोग्यत्वमनादिपरिणामिभाव आत्मखतत्त्वमेव, तथाभव्यत्वं तु भव्यत्वस्य फलदानाभिमुख्यकारि (री) वसन्तादिवद्वनस्पतिविशेषस्य काल(),कालसद्भावेऽपि न्यूनाधिकव्यपोहेन नियतकार्यकारिणी नियतिः, अपचीयमानसंक्लेशं नाना शुभाशयसंवेदनहेतुः कुशलानुवन्धि कर्म, समुपचितपुण्यसंभारो महाकल्याणाशयः प्रधानपरिज्ञानवान् है प्ररूप्यमाणार्थपरिज्ञानकुशलः पुरुषः, ततस्तथाभव्यत्वमादौ येषां ते तथा तेभ्योऽसौ वरबोधिलाभः प्रादुरस्ति, खरूपं च जीवादिपदार्थश्रद्धानमस्य ।अथ फलत एव तमेवाह "ग्रन्थिभेदे नात्यन्तसङ्क्लेश इति" इह ग्रन्थिरिव ग्रन्थिदृढो रागद्वेषपरिणामः, तस्य ग्रन्थेभैंदेऽपूर्वकरणवनसूच्या विदारणे सति लब्धशुद्धतत्त्वश्रद्धानसाम Jain Education Inslwal For Private & Personel Use Only ainelibrary.org
SR No.600095
Book TitleDharmsangraha
Original Sutra AuthorManvijayji, Yashovijay Upadhyay
AuthorAnandsagarsuri, Sagaranandsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1915
Total Pages522
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy