SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ संग्रह. ॥२६॥ ष्टम्भोपपन्नत्वेनाभीष्टत्वात्, प्रमाणं चेदम्-यो योऽभिलाषास सोऽभिलाषान्तरपूर्वको दृष्टो, यथा यौवनकालाभिलाषो बालकालीनाभिलाषपूर्वकः, अभिलाषश्च बालस्य तदहर्जातस्य प्रसारितलोचनस्य मातुः स्तनौ निभालयतः स्तन्यस्पृहारूपः, यच्च तद्भिलाषान्तरं तन्नियमाद्भवान्तरभावीति । तथा “देहकृतस्यात्मनाऽनुपभोग इति" एकान्तभेदे देहात्मनोः 'देहकृतस्य' शुभस्याशुभस्य वा आत्मनानुपभोगः' सुखदुःखानुभवद्वारेणाऽवेदनमापद्यते, नहि कश्चिदन्यकृतं शुभमशुभं वा वेदितुमर्हति, कृतनाशाकृताभ्यागमदोषप्रसङ्गादिति । तथा | "आत्मकृतस्य देहेनेति” यदि च देहाद्भिन्न एवात्मेत्यभ्युपगमस्तदा 'आत्मकृतस्य' कुशलादकुशलाद्वाऽनुष्ठानादात्मसमुपार्जितस्य शुभस्याशुभस्य च कर्मण इहामुत्र च देहेन कानुपभोगोऽवेदनं प्रसज्यते, अकृतत्वात् । यदि नामैवमापद्यते तथापि को दोषः? इत्याह-"दृष्टेष्टबाधेति” दृष्टस्य सर्वलोकप्रतीतस्य देहकृतस्यात्मना आत्मकृतस्य च देहेन यः सुखदुःखानुभवस्तस्य इष्टस्य च शास्त्रसिद्धस्य बाधाऽपहवः प्रामोति । तथाहि-दृश्यत एवात्मा देहकृताचौर्यपारदार्याद्यनार्यकार्याचारकादौ चिरशोकविषादादीनि दुःखानि समुपलभमानः, शरीरं च तथाविधमनःसंक्षोभादापन्नज्वरादिजनितव्यथामनुभवति, न च दृष्टेष्टापलापिता युक्ता सतां, नास्तिकलक्षणत्वात्तस्याः। इत्थं सर्वथा नित्यमनित्यं च तथा देहाद्भिन्नमभिन्नं चात्मानमङ्गीकृत्य हिंसादीनामसंभवमापाद्योपसंहरन्नाह-"अतोऽन्यथैतत्सिद्धिरिति तत्त्ववाद इति” 'अत' एकान्तवादाद अन्यथा' नित्यानित्यादिवरूपे आत्मनि समभ्युपगम्यमाने एतस्मिन् (सिद्धिः) हिंसाहिंसादिसिद्धिस्तत्सिद्धौ च तन्निब २६॥ in Education For Private Personal use only neibrary.org
SR No.600095
Book TitleDharmsangraha
Original Sutra AuthorManvijayji, Yashovijay Upadhyay
AuthorAnandsagarsuri, Sagaranandsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1915
Total Pages522
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy