________________
देहान्न स्पृष्टवेदनमिति” यदि हि भिन्न एवं विलक्षण एव सर्वथा देहादात्मा तदा 'न' नैव स्पृष्टस्य योषिच्छरी|रशयनासनादेः कण्टकज्वलनज्वालादेश्च इष्टानिष्टरूपस्पर्शनेन्द्रियविषयस्य देहेन स्पृश्यमानस्य वेदनमनुभवनं प्राप्नोति भोगिनः पुरुषस्य, न हि देवदत्ते शयनादीनि भोगाङ्गानि स्पृशति विष्णुमित्रस्यानुभवप्रतीतिरस्तीति। तथा “निरर्थकश्चानुग्रह इति" 'निरर्थकः' पुरुषसंतोषलक्षणफलविकलश्चःसमुच्चये, 'अनुग्रहः' स्रक्कन्दनाङ्गनावसनादिभि गाभैरुपष्टम्भो भवेद्देहस्य, देहादात्मनोऽत्यन्तभिन्नत्वात्, निग्रहस्याप्युपलक्षणमेतत्। एवं भेदपक्षनिराकृत्याभेदपक्षनिराकरणायाह-"अभिन्न एवामरणं वैकल्यायोगादिति” 'अभिन्न एवं देहात्सवथा नानात्वमनालम्बमाने आत्मनि सति 'चैतन्यविशिष्टः कायः पुरुष इति मतावलम्बिनां सुरगुरुशिष्याणामभ्युपगमेन' किमित्याह-'अमरणं' मृत्योरभाव आपद्यते आत्मनः । कुत इत्याह-वैकल्यस्यायोगाद्घटनात्, यतो मृतेऽपि देहे न किञ्चित्पृथिव्यादिभूतानां देहारम्भकाणां वैकल्यमुपलभ्यते, वायोस्तत्र वैकल्यमिति चेन्न, वायुमन्तरेण उत्सूनभावाऽयोगात्, तर्हि तेजसस्तत्र वैकल्यमस्तीति चेन्न, तेजसो व्यतिरेकेण कुथितभावाप्रतिपत्तेरिति कथं देहाभिन्नात्मवादिनां मरणमुपपन्नं भवेदिति । प्राक्तनावस्थयोयुतेजसोस्तत्राभावात् मरणमुपपद्यते इति चेदुच्यते "मरणे परलोकाभाव इति" 'मरणे' अभ्युपगम्यमाने परलोकस्याभावः प्रसज्यते, न हि देहादभिन्न एवात्मन्यभ्युपगम्यमाने कश्चित्परलोकयायी सिद्ध्यति, देहस्थात्रैव तावत्पातदर्शनात्तद्व्यतिरिक्तस्य चात्मनोऽनभ्युपगमात्, न च वक्तव्यं परलोक एव तर्हि नास्ति, तस्य सर्वशिष्टैःप्रमाणोप
JainEducationind
For Private
Personal Use Only
R
ainelibrary.org