SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ धर्म ॥ २५॥ --COLCANCE सितुं युक्तं स्यात् । यादृशि चात्मनि प्रागुपन्यस्ता बन्धहेतव उपपद्यन्ते तमन्वयव्यतिरेकाभ्यामाह-“परि- संग्रह. दाणामिन्यात्मनि हिंसादयो भिन्न भिन्ने च देहादिति” परिणमनं परिणामो द्रव्यरूपतयाऽवस्थितस्यैव वस्तुनः पर्यायान्तरप्रतिपत्तिः यथोक्तम्-"परिणामो ह्यर्थान्तरगमनं न च सर्वथा व्यवस्थानम् । न च सर्वथा विनाशः, परिणामस्तद्विदामिष्टः॥१॥” परिणामो नित्यमस्यास्तीति परिणामी तत्र, आत्मनि जीवे, 'हिंसादयः'प्राग्निरूपिता उपपद्यन्ते, तथा भिन्ने पृथग्रूपे'अभिन्ने च' तद्विपरीते, चकारो विशेषणसमुच्चये, कस्मादित्याह-'देहात्' शरीरात्। अत्रैवार्थे विपक्षे बाधामाह-"अन्यथा तद्योग इति” यदि हि परिणाम्यात्मा भिन्नाभिन्नश्च देहान्नेष्यते, तदा तेषां | हिंसादीनां बन्धहेतुतयोपन्यस्तानामयोगोऽघटना। कथमित्याह-"नित्य एवाधिकारतोऽसंभवादिति" नित्य एव अ(प्र)च्युतानुत्पन्नस्थिरैकखभावे आत्मनि नतु पर्यायन(त)यावलम्बनेनानित्यरूपेऽपीत्येवकारार्थोऽभ्युपगम्यमाने में द्रव्यास्तिकनयावष्टम्भतोऽधिकारतस्तिलतुषत्रिभागमात्रमपि पूर्वस्वरूपादनच्यवमानत्वेनासम्भवाद्घटनात् हिंसायाः,यतो विवक्षितहिंसा विवक्षितपर्यायविनाशादिखभावा शास्त्रेषु गीयते यथोक्तम्-"तत्पर्यायविनाशो, दुःखोत्पादस्तथा च संक्लेशः। एष वधोजिनभणितो, वर्जयितव्यः प्रयत्नेन ॥१॥" तथा "अनित्ये चापराऽहिंसनेनेति” 'अनित्ये च' सर्वथा प्रतिक्षणभङ्गुरे पुनरात्मन्यभ्युपगम्यमाने सति, अपरेण केनचिल्लुब्धकादिना अहिंसनेनाऽव्यापादनेन, कस्यचिच्छूकरादेहिसाऽसंभवः । प्रतिक्षणभङ्गुरत्वाभ्युपगमे हि सर्वेष्वात्मसु खत एव ता॥२५॥ खजन्मलाभक्षणानन्तरं सर्वथा निवर्तमानेषु कः कस्य हिंसकः? को वा कस्य हिंसनीयः? इति। तथा"भिन्न एव +CCCC % Jain Education For Private Personel Use Only jainelibrary.org
SR No.600095
Book TitleDharmsangraha
Original Sutra AuthorManvijayji, Yashovijay Upadhyay
AuthorAnandsagarsuri, Sagaranandsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1915
Total Pages522
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy