________________
ध० सं० ५
Jain Education In
नियमाद्यनुष्ठानं मुक्तिफलुतयोक्तं यद्योगशास्त्रेषु तद्व्यर्थमेव स्यात्, बौद्धस्यापि चित्तादव्यतिरिक्तकर्मवादिनोऽवस्तुसत्त्वमेव कर्मणः स्यात् यतो यद्यतोऽव्यतिरिक्तखरूपं तत्तदेव भवति, न च लोके तदेव तेनैव बध्यते इति प्रतीतिरस्ति, बध्यमानबन्धनयोः पुरुषनिगडादिरूपयोर्भिन्नस्वभावयोरेव लोके व्यवह्नियमाणत्वात् । किंच - चित्तमात्रत्वे कर्मणोऽभ्युपगम्यमाने संसारापवर्गयोर्भेदो न (प्रति) प्राप्नोति, चित्तमात्रस्योभयत्राप्यविशेषात् । वन्धमोक्षहेतूनेवाह - “हिंसादयस्तद्योग हेतवस्तदितरे तदितरस्येति” 'हिंसादयः' इति हिंसानृताद्यो जीवपरिणामविशेषाः किमित्याह - तद्योगहेतवस्तस्य बन्धस्य संसारफलत्वेन परमार्थचिन्तायां | पापात्मकस्यैव योगहेतव आत्मना सह बन्धकारणभावमापन्ना वर्त्तन्ते । यदवाचि - "हिंसाऽनृतादयः पञ्च, तत्त्वाऽश्रद्धानमेव च । क्रोधादयश्च चत्वार, इति पापस्य हेतवः ॥ १ ॥ " तथा 'तदितरे' तेभ्यो हिंसादिभ्य इतरेऽहिंसादय एव, 'तदितरस्य' तस्माद्वन्धादितरो मोक्षस्तस्यानुरूपकारणप्रभवत्वात् सर्वकार्याणामिति । बन्धस्यैव खरूपमाह - "प्रवाहतोऽनादिमानिति" प्रवाहतः परम्परातोऽनादिमान् आदिभूतबन्धकालविकलः । अत्रैवार्थे उपचयमाह - " कृतकत्वेऽप्यतीतकालवदुपपत्तिरिति" 'कृतकत्वेऽपि खहेतुभिर्निष्पादितत्वेऽपि बन्धस्यातीतकालस्येवोपपत्तिर्घटनाऽनादिमत्त्वस्य वक्तव्या, किमुक्तभवति ? प्रतिक्षणं क्रियमाणोऽपि बन्धः प्रवाहापेक्ष यातीत कालवदनादिमानेव । अथ यादृशादनयोर्दृष्टान्तदाष्टन्तिक भावोऽभूत् तं साक्षादेव दर्शयन्नाह - " वर्त्तमानताकल्पं कृतकत्वमिति" यादृशी अतीतकालसमयानां वर्त्तमानता तत्कल्पं क्रियमाणत्वमित्युपन्य
For Private & Personal Use Only
jainelibrary.org