SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ संग्रह ॥२४॥ मोक्षश्च बन्धमोक्षौ तयोरुपपत्तिरुत्पत्तिर्घटना तस्याः सकाशाच्छुद्धिवस्तुवाद निर्मलता चिन्तनीया । इदमुक्तंभवति-यस्मिन् सिद्धान्ते बन्धमोक्षयोग्य आत्मा तैस्तैर्विशेषैर्निरुप्यते स सर्ववेदिपुरुषप्रतिपादित इति। कोविदैनिश्चीयते इति।इयमपि बन्धमोक्षोपपत्तिर्यथा युज्यते तथाऽऽह-"इयं बध्यमानबन्धनभावे इति" इयं बन्धमोक्षोपपत्तिबध्यमानस्य बन्धनस्य च वक्ष्यमाणस्य भावे सद्भावे सति भवति, कुत इत्याह-"कल्पनामात्रमन्यथेति” यस्मात्कारणादियं कल्पनैव केवला वितधाथेप्रतिभासरूपा, न पुनस्तत्र प्रतिभासमानोssपीति कल्पनामात्रं, अन्यथा मुख्यबध्यमानबन्धनयोरभावे वर्त्तते इति।बध्यमानबन्धने एव व्याचष्टे-"बध्यमानं आत्मा बन्धनं वस्तुसत्कर्मेति” तत्र बध्यमानः खसामर्थ्यतिरोधानेन पारवश्यमानीयमानः, क इत्याहआत्मा चतुर्दशभूतग्रामभेदभिन्नो जीवःप्रतिपाद्यते,तथा बध्यते मिथ्यात्वादिभिर्हेतुभिरात्माऽनेनेति बन्धन, किमित्याह-वस्तुसत्परमार्थतो विद्यमानं, कर्म ज्ञानावरणादि अनन्तानन्तपरमाणुप्रचयखभावमत एव मूर्तप्रकृतीति,अत्रात्मग्रहणेन साङ्ख्यमतनिरासमाह, यतस्तत्रोच्यते "आत्मा न बध्यते,नापि संसरति कश्चित् , संसरति बध्यते मुच्यते च नानाश्रया प्रकृतिः। वस्तुसग्रहणेन तु सौगतमतस्य, यतस्तत्रापि पठ्यते "चित्तमेव हि संसारो, रागादिक्तेशवासितम् । तदेव तैर्विनिर्मुक्तं, भवान्त इति कथ्यते॥१॥" 'रागादिक्लेशवासितमिति रागादिक्लेशैः सर्वथा चित्ताव्यतिरिक्तैर्वासितं संस्स्कृतम्, एवं हि बध्यमानान्न भिन्नं वस्तु सत्कर्मेत्युपगतं भवति । तत्र प्रकृतेरेव बन्धमोक्षाभ्युपगमे आत्मनः संसारापवर्गावस्थयोरभिन्नैकस्वभावत्वेन योगिनां यम ॥२४॥ Jain Education in For Private Personel Use Only tainelibrary.org
SR No.600095
Book TitleDharmsangraha
Original Sutra AuthorManvijayji, Yashovijay Upadhyay
AuthorAnandsagarsuri, Sagaranandsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1915
Total Pages522
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy