________________
धर्म
मंग्रह.
यन्ते. ते मर्त्यदेवशिवशर्म नरा लभन्ते ॥१॥” इत्यादि पूर्व जिनागमे धनवपनाधिकारे प्रदर्शितमेवेति
द्वारं ६ तथा पौषधशालायां श्राद्धादीनां पोषधादिग्रहणार्थ साधारणस्थानस्य निरवद्यधर्मिजनाकीर्णस्थाने ॥२५७॥ 18 विधापनं, सा च धर्मिजनार्थ कारिता प्रगुणिताच निरवद्याहस्थानत्वेन यथावसरं साधूनामप्युपाश्रयत्वेन
प्रदेथा, तदानस्य च महाफलं, यतः-"जो देइ उवस्सयं जइवराण तवणिअमजोगजुत्ताणं । तेणं दिण्णा वत्थन्नपत्तसयणासणविगप्पा ॥१॥"इति द्वारगाथा समाप्ता । श्राद्धविधौ तु गृहनिर्मापणादीन्यपि कर्माणि जन्मकृत्येषु न्यस्तानि, परं तानि सामान्यगृहिधर्माधिकारीयाणीति तत्रैव लिखितानि । व्रतादीन्यपि पूर्व व्याख्यातत्यान्नात्र लिखितानि । प्रतिमानुष्ठानं च विशेषत उपयोगित्वात् स्वतन्त्रमेव मूले वक्ष्यत इति नात्रोक्तमिति जन्मकृत्यानि ॥ ६९॥ अथ प्रतिमापालनरूपं जन्मसंबन्ध्येव कृत्यं खातयेणाहविधिना दर्शनाद्यानां, प्रतिमानां प्रपालनम् । यासु स्थितो गृहस्थोऽपि, विशुद्ध्यति विशेषतः ॥७॥
'विधिना' दशाश्रुतस्कन्धाद्यागमप्रतिपादितेन, दर्शन-सम्यक्त्वं तत्प्रधाना तेनोपलक्षिता वा प्रतिमापि दर्शनं, सा आद्या-प्रथमा यासां प्रतिमानां ता दर्शनाद्यास्तासां, एकादशसङ्ख्यानामित्यर्थः । 'प्रतिमानां' अभिग्रहविशेषाणां 'प्रपालनं' प्रकर्षेण पालनं, विशेषतो गृहिधर्मों भवतीत्यन्वयः । आसां पालने किं भवतीत्याह-याखित्यादि' 'यासु' प्रतिमासु 'स्थितो निष्ठः 'गृहस्थोऽपि' यतितामप्राप्नुवन्नपि, आस्तां कृतससङ्गत्यागोऽनगार इत्यपिशब्दार्थः, 'विशेषतः' असङ्ख्यगुणया गुणश्रेण्या 'विशुद्ध्यति' क्षीणपापो भवति ।
॥२५७॥
Jain Education International
For Private & Personal Use Only
ww.jainelibrary.org