________________
RECAREASEAUCR
अथ पुनः काः प्रतिमाः? यासु स्थितो गृहस्थोऽपि विशेषतः शुद्ध्यति, उच्यते-"दसण १ वय २ सामाइअ, ३ पोसह ४ पडिमा ५ अबंभ ६ सचित्ते ७ । आरंभ ८ पेस ९ उद्दिट्ट १०, वजए समणभूए अ॥१॥” इति । तत्र शङ्कादिदोषरहितं प्रशमादिलिङ्गं स्थैर्यादिभूषणं मोक्षमार्गप्रासादपीठभूतं सम्यग्दर्शनं, भयलोभलज्जादिभिरप्यनतिचरन् मासमात्रं सम्यक्त्वमनुपालयतीत्येषा प्रथमा प्रतिमा १ । द्वौ मासौ यावदखण्डितान्यविराधितानि च पूर्वप्रतिमानुष्ठानसहितानि द्वादशापि व्रतानि पालयतीति द्वितीया २ । त्रीन्मासानुभयकालमप्रमत्तः पूर्वोक्तप्रतिमानुष्ठानसहितः सामायिकमनुपालयतीति तृतीया ३ । चतुरो मासांश्चतुष्पा | पूर्वप्रतिमानुष्ठानसहितोऽखण्डितं पौषधं पालयतीति चतुर्थी ४ । पञ्च मासांश्चतुष्पा गृहे तद्वारे चतुष्पथे वा | परीषहोपसर्गादिनिष्कम्पकायोत्सर्गः पूर्वोक्तप्रतिमानुष्ठानं पालयन् सकलां रात्रिमास्त इति पञ्चमी ५। एवं वक्ष्यमाणाखपि प्रतिमासु पूर्वपूर्वप्रतिमानुष्टाननिष्ठताऽवसेया, नवरं षण्मासान् ब्रह्मचारी भवतीति षष्ठी । सप्त मासान् सचित्ताहारान् परिहरतीति सप्तमी ७ । अष्टौ मासान् खयमारम्भं न करोतीत्यष्टमी ८। नव मासान् प्रेष्यैरप्यारम्भं न कारयतीति नवमी ९ । दश मासानात्मार्थ निष्पन्नमाहारं न भुत इति दशमी १०। एकादश मासांस्त्यक्तसङ्गो रजोहरणादिमुनिवेषधारी कृतकेशोत्पाट: खायत्तेषु गोकुलादिषु वसन् प्रतिमाप्रतिपन्नाय श्रमणोपासकाय भिक्षां दत्तेति वदन् धर्मलाभशब्दोचारणरहितं सुसाधुवत्समाचरतीत्येकादशी ११ । उक्तं च-"दसणपडिमा नेया, सम्मत्तजुअस्स सा इहं बुंदी। कुग्गहकलंकरहिआ, मिच्छत्त
JainEducationa
For Private
Personel Use Only
M
ainelibrary.org
)