SearchBrowseAboutContactDonate
Page Preview
Page 515
Loading...
Download File
Download File
Page Text
________________ Jain Education In प्रेतोपहारः पत्रपुष्पफलाक्षताद्यः (ढ्यः) सुरभिगन्धोदकोन्मिश्रः सिद्धान्नप्रक्षेपरूपो, दीनदानं कृपणेभ्योऽनुकम्पा - वितरणमिति ॥ १८ ॥ "तत्तो पडिदिणपूआविहाणओं तह तहेव कायव्यं । विहिआणुट्ठाणं खलु, भवविरहफलं जहा हुंति (होर ) ॥ १९ ॥” इति । प्रतिष्ठानन्तरं च द्वादश मासान् विशिष्य च प्रतिष्ठादिने लात्रादि कृत्वा सम्पूर्णे वर्षेऽष्टाहिकादिविशेष पूजापूर्वमायुर्ग्रन्धिर्बन्धनीयः, उत्तरोत्तरं विशेषपूजा च कार्येति प्रतिष्ठाद्वारम् ३ । तथैव प्रौढोत्सवैः सुतादीनामादिशब्दात्पुत्रभ्रातृभ्रातृव्यखजनसुहृत्परिजनादीनां दीक्षादापनं, उपलक्षणत्वादुपस्थापनाकारणं च श्रूयतेऽपि कृष्णचेटकनुपयोः स्वापत्यविवाहनेऽपि नियमवतोः खपुत्र्यादीनामन्येषां च थावच्चापुत्रादीनां प्रौढोत्सवैः प्रव्राजना, इयं च महाफला, यतः - "ते धन्ना कयपुण्णा, जणओ जणणी अ सयणवग्गो अ । जेसिं कुलम्मि जायइ, चारितधरो महापुत्तो ॥ १ ॥” इति । द्वारम् ४। तथा पदस्थापना गणि वाचनाचार्यादिपदप्रतिष्ठापनं, दीक्षितखपुत्रादीनामन्येषां वा पदार्हाणां शासनोन्नत्यादिनिमित्तं प्रौढोत्सवै - विधाप्या, श्रूयते हि प्रथमेऽर्हतः समवसरणे सौधर्मेन्द्रेण गणधर पदस्थापनाकारणं, मन्त्रिवस्तुपालेनाप्येकविंशतिसरीणां पदस्थापना कारितेति द्वारं ५। तथा पुस्तकानां श्रीकल्पाद्यागमजिनचरित्रादिसत्कानां न्यायार्जितवित्तेन विशिष्टपत्र विशुद्धाक्षरादियुक्त्या लेखनं । तथा वाचनं संविग्नगीतार्थेभ्यः प्रौढाडम्बरैः प्रत्यहं पूजादिबहुमानपूर्वकं व्याख्यापनं, उपलक्षणत्वात्तद्वाचनभणनादिकृतां वस्त्रादिभिरुपष्टम्भदानं, यतः - "ये लेख - यन्ति जिनशासनपुस्तकानि व्याख्यानयन्ति च पठन्ति च पाठयन्ति । शृण्वन्ति रक्षणविधौ च समाद्रि For Private & Personal Use Only lainelibrary.org
SR No.600095
Book TitleDharmsangraha
Original Sutra AuthorManvijayji, Yashovijay Upadhyay
AuthorAnandsagarsuri, Sagaranandsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1915
Total Pages522
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy