________________
॥ २५६ ॥
Jain Education
पाणां, पाठोऽभिधानं, विधेयः ॥ १२॥ स यथा - "जह सिद्धाण [पसिद्धा ] पट्ठा तिलोगचूडामणिमि सिद्धिए । आचंद्रसूरिअं तह, होउ इमा सुप्पतिट्ठत्ति ॥ १३ ॥ कण्ठ्या । शेषा मङ्गलगाथा अतिदेशत आह— “ एवं अचलादीसुवि, मेरुप्पमुहे हुंति बत्तव्यं । एते मंगलसद्दा, तम्मि सुहनिबंधणा दिट्ठा ॥ १४ ॥” प्रतिष्ठायां च स्नात्रैर्जन्मावस्थां फलनैवेद्य पुष्पविलेपनसङ्गीताद्युपचारैः कौमाराद्युत्तरोत्तरावस्थां छाद्मस्थ्य सूचकाच्छादनाच्छादितकायत्वाद्यधिवासनया शुद्धचारित्रावस्थां नेत्रोन्मीलनेन केवलोत्पत्त्यवस्थां सर्वाङ्गीणपूजोपचारैश्च समवत्यवस्थां चिन्तयेदिति श्राद्धसमाचारीवृत्तौ । अथ प्रतिष्ठानन्तरं यद्विधेयं तदाह - " सत्तीए संघपूजा, विसेसपूजा उ बहुगुणा एसा । एस सुए भणिओ, तित्थयराणंतरो संघो ॥ १५ ॥” तथा - "उचिओ जणोवयारो, विसेसओ णवरि सयणवग्गंमि । साहम्मिअवग्गंमि अ, एअं खलु परमवच्छलं ॥ १६ ॥” तथा "अट्ठाहिआ य महिमा, सम्मं अणुबंधसाहिगा केई । अण्णे उ तिण्णि दिअहे, णिओगओ चैव कायव्वा ॥ १७ ॥" अष्टाहिका महिमा कार्या, सा ह्यनुबन्धसाधिका - पूजाऽविच्छेद्गमिका भवतीति केचिदाचार्या आहुः, अन्ये तु त्रीन् दिवसान् यावत् महिमा नियोगत एव-नियमेनैव कार्येति ॥१७॥ षोडशकेऽपि - " अष्टौ दिवसान् यावत्, पूजाऽविच्छेदतोऽस्य कर्त्तव्या । दानं च यथाविभवं, दातव्यं सर्वसत्त्वेभ्यः ॥ १ ॥” इति । ततो महिमानन्तरं कर्त्तव्यमाह - "तत्तो विसेस आपुवं विहिणा पडिस्सरोम्मुअणं । भूअबलि दीणदाणं, एत्थंपि | ससत्तिओ किंपि ॥ १८ ॥” ततो विशेषपूजापूर्व प्रतिसरोन्मोचनं कङ्कणमोचनं विधेयं, तथा भूतबलिः
For Private & Personal Use Only
संग्रह.
॥ २५६ ॥
jainelibrary.org