________________
Jain Education Int
इति शेषः, आयतने भवने, स्थानस्थापना उचितस्थानन्यासश्च बिम्बस्यैवेति गाथार्थः ॥ १ ॥ “ तेणेव खेत्तसुद्धी, हत्थसयादिविसया णिओगेणं । कायच्वो सकारो, गंधपुप्फाइएहिँ तहिं ॥ २ ॥” तथा तेन शुभयोगेन, क्षेत्रशुद्धिर्भूमिशोधनं, अस्थिमांसाद्यशुचिद्रव्यापनयनेन, हस्तशतादिविषया आदिशब्दाद्बहुतरविषयापि, नियोगेनावश्यं, कार्येति गम्यं, तथा गन्धपुष्पादिभिर्जिन भवने प्रतिष्ठावसरे चेति गाथार्थः ॥ २ ॥ "दिसिदेवयाण पूआ, सव्वेसिं तहय लोगपालाणं । ओसरणकमेणण्णे, सव्वेसिं चेव देवाणं ॥ ३ ॥ दिग्देवतानामिन्द्रादीनां पूजा कार्या, तथा लोकपालानां सोमादीनां खड्ग १ दण्ड २ पाश ३ गदा ४ हस्तानां अवसरणक्रमेण समवसरणन्यायेन, अन्ये आचार्याः सर्वेषां देवानां पूजा कार्येत्येवमाहुरिति गाथार्थः ॥ ३ ॥ "तत्तो सुहजोएणं, सहाणे मंगलेहिं ठवणा उ । अहिवासणमुचिएणं, गंधोदगमाइणा एत्थ ॥ ४ ॥ ततो दिग्देवतादिपूजानन्तरं, शुभयोगेन प्रशस्तचन्द्रनक्षत्र लग्नसंबन्धेन, स्वस्थानेऽधिवासनोचिते देशे, मङ्गलैर्गेयविशेषैश्चन्दनादिभिर्वा, स्थापना न्यासो, बिम्बस्य कार्येति गम्यं, ततश्चाधिवासनशुद्धिविशेषापादनेन | विम्बप्रतिष्ठायोग्यताकरणं प्रतिष्ठाकल्पप्रसिद्धं, उचितेन गन्धोदकादिना सद्गन्धमिश्रजलप्रभृतिना, आदि| शब्दात्कषायमृत्तिकादिपरिग्रहः, अत्र प्रतिष्ठायामिति गाथार्थः ॥ ४ ॥ " चत्तारि पुण्णकलसा, पहाणमुद्दा विचित्तकुसुमजुआ । सुहपुण्णचत्तचउतंतुगोत्थया होंति पासेसुं ॥ ५ ॥ तथा चत्वारो जलपूर्णघटाः, प्रधानमुद्रा स्वर्णरूप्यादिमय्या विचित्रपुष्पैश्च युक्ताः, तथा शुभपूर्णचत्रचतुस्तन्तुकावस्तृताः, पूर्ण सूत्रकुर्कु
For Private & Personal Use Only
jainelibrary.org