________________
धर्म
॥ २५४ ॥
Jain Education In
न सुंदरं होइ कइआवि ॥ ४ ॥ इक्कंगुलाई पडिमा इक्कारस जाव गेहि पूइज्जा । उहुं पासाइ पुणो, इअ भणिअं पुव्वसूरीहिं ॥ ५ ॥ निरयावलसुत्ताओ, लेबोवलदंतकट्ठलोहाणं । परिवारमाणरहिअं, घरंमि नो अए बिंबं ॥ ६ ॥ गिहपडिमाणं पुरओ, बलिवित्थारो न चैव कायव्वो । निचं पहवण तिसंझं मज्जणं भावओ कुज्जा ॥ ७ ॥” प्रतिमा मुख्यवृत्त्या सपरिकराः सतिलकाद्याभरणाश्च कारयितव्याः, विशिष्य च मूलनायकः, तथैव विशेषशोभातज्जनितविशेषपुण्यानुबन्धिपुण्यादिसम्भवात् उक्तं च- "पासाईआ पडिमा ” इत्यादि द्वारं २ । अथैवं निष्पन्नस्य विम्वस्य सद्यः प्रतिष्ठा विधाप्या, यदुक्तं षोडशके - “निष्पन्नस्यैवं खलु, जिनबिम्बस्यो - दिता प्रतिष्ठाऽऽशु । दसदिवसाभ्यन्तरतः, सा च त्रिविधा समासेन ॥ १ ॥ व्यक्त्याख्या खल्वेका" इत्यादि । बृहद्भाष्येऽपि - " वत्तपट्टा एगा, वित्तपइट्ठा महापइट्ठा य । एगचउवीससत्तरिसयाण सा होइ अणुकमसो ॥ १ ॥” प्रतिष्ठाविधिश्व सर्वाङ्गीणतदुपकरणमीलन नानास्थानश्रीसङ्घगुर्वाकारणप्रौढप्रवेशम हादितत्खागतकरण
भोजनवसनप्रदानादिसर्वाङ्गीणसत्कारणवन्दिमोक्षकारणमारिनिवारणाऽवारितसत्रवितरणसूत्रधारसत्कारण
स्फीतसङ्गीताद्यभिनवाद्भुतोत्सवावतारणादिरष्टादशनात्र कारणादिश्च प्रतिष्ठाकल्पादेर्ज्ञेयः । किञ्चिच्च पञ्चाशकत उड्रियते, तथाहि — “णिष्कण्णस्स य सम्मं, तस्स पइट्ठावणे विही एसो । सुहजोएण पवेसो, आयतणे ठाणठावण्या ॥ १ ॥ सम्यक् विधिवन्निष्पन्नस्य तस्य-जिनबिम्बस्य, प्रतिष्ठापने, एष वक्ष्यमाणो, विधिज्ञेयः, तमेवाह - शुभयोगेन साधकचन्द्रनक्षत्रादिसम्बन्धेन प्रशस्तमनः प्रभृतिव्यापारेण वा, प्रवेशो विम्बस्य कर्त्तव्य
For Private & Personal Use Only
संग्रह.
॥ २५४ ॥
jainelibrary.org