SearchBrowseAboutContactDonate
Page Preview
Page 512
Loading...
Download File
Download File
Page Text
________________ धर्म ।। २५५ ।। Jain Education In टिकापूरितं यच्च तर्कस्तस्य संबन्धि यच्चतुस्तन्तुकं तन्तुचतुष्टयं तत्तथा शुभं च तत् पूर्णचत्रचतुस्तन्तुकं चेति समासस्तेनावस्तृता- आच्छादिताः कण्ठदेशा येषु ते तथा, विधेया इति शेषः, पार्श्वेषु चतसृषु दिक्षु प्रतिष्ठाप्यप्रतिमाया इति ॥ ५ ॥ "मंगलदीवा य तहा, घयगुलपुण्णा सुभिक्खुभक्खा य । जवयारयवण्णसत्धिगादि सव्वं महारम्मं ॥ ६ ॥" तथा घृतगुडपूर्णा मङ्गलदीपाः कीदृशास्ते ? - शुभा इक्षवः - इक्षुखण्डानि, भक्ष्याणि च खण्डकानि येषु ते, अथवा स्वतन्त्राण्येव शुभेक्षुभक्ष्याणि भवन्ति, तत्र शुभा इक्षवो, वृक्षाश्च कदल्यादयः, तथा यवारकाः शरावादिरोपितयवाङ्कुराः, वर्णकञ्चन्दनश्रीखण्डादि, स्वस्तिकः प्रसिद्ध एव, आदि शब्दान्नन्दावर्त्तादि सर्व यथा रम्यं रमणीयं विधेयमित्यन्वयः ॥ ६ ॥ "मंगलपडिसरणाई, चित्ताई रिद्धिविद्धिजुत्ताइं । पढमदिअहंमि चंदणविलेवणं देवगंधङ्कं ॥ ७ ॥" मङ्गलप्रतिसरणानि कङ्कणानि, चित्राणि विचित्राणि, ऋद्धिवृद्ध्यभिधानौषधीसनाथानि, प्रथमदिवसे अधिवासनादिने, चन्दनविलेपनमेव गन्धाढ्यं कर्पूरकस्तूरिकादिभिः पूर्ण विधेयमिति ॥ ७ ॥ "चडणारीओमिणणं, णिअमा अहिगासु णत्थि उ विरोहो । वत्थं च इमासिं, जं पवरं तं इदं सेअं ॥ ८ ॥ चतुःसङ्ख्या नार्यः स्त्रियस्ताभिर्मङ्गल्याभिः, 'ओमिणणं' ति अवमानं प्रोङ्खणकं लोकशास्त्रसिद्धं तचातुर्णार्यवमानं, तत्र नियमात् कर्त्तव्यं, चतसृभ्योऽधिकासु नास्त्येव विरोध:शास्त्रबाधा, नेपथ्यं च वेषः, आसामवमानकारिनारीणां यत्प्रवरं श्रेष्ठं तत्, इह प्रस्तावे श्रेयः कल्याणभूत| मिति ॥ ८ ॥ अधिवासनगतं विध्यन्तरमाह - “उक्कोसिआ य पूआ, पहाणदव्वेहिं एत्थ कायव्वा । ओसहि For Private & Personal Use Only संग्रह ।। २५५ ।। Jainelibrary.org
SR No.600095
Book TitleDharmsangraha
Original Sutra AuthorManvijayji, Yashovijay Upadhyay
AuthorAnandsagarsuri, Sagaranandsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1915
Total Pages522
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy